________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सम्यक्त्व-कौमुद्यां
भिप्राय निवेद्य भणितम्-अयं यमदंडो दुष्टात्मा मारणीय उपायेन । ततस्ताभ्यां तथैवालोचितम् । यतः
"तादृशी जायते बुद्धिर्व्यवसायश्च तादृशः ।
सहायास्तादृशा शेया यादृशी भवितव्यता ॥" उपायं कंचनं पर्यालोच्य त्रिभिमिलित्वैकस्मिन्दिवसे राज्ञा कोशे खनित्रव्यापारं कृत्वा तत्रस्थानि वस्तूनि अन्यत्र सुगुप्तस्थाने निक्षिप्य निजस्थानं प्रति वेगेन गच्छता राज्ञा पादुका, मंत्रिणा मुद्रिका विस्मृता, पुरोहितेन च यज्ञोपवीतं । प्रातः समये कोलाहलः कृतः । यमदंडाकारणार्थ भृत्याः प्रेषिताः । यमदंडेन चिन्तितमद्य मे मरणमायातम् । यदुक्तम्
"कविरकविः पटुरपटुः शूरो भीरुश्चिरायुरल्पायुः । कुलजः कुलीनहीनो भवति पुमानरपतेः कोपात् ॥" एवं निश्चित्यागतो राजमन्दिरं यमदंडः । तं दृष्ट्वा राज्ञा भणितं-रे यमदंड, महाजनरक्षा करोषि, ममोपरि औदासीन्यं च । अद्य मम भाण्डारस्थितानि सर्ववस्तूनि चौरेण गृहीतानि । तानि वस्तूनि चौरश्च झटिति दातव्यः । नो चेच्छिरश्छेदं करिष्यामि । एतद्राजवचनं श्रुत्वा खातावलोकनार्थं गतो यमदंडः । तत्र खातमुखे, पादुकां, मुद्रिकां, यज्ञोपवीतं च दृष्ट्वा गृहीत्वा पादुकाभ्यां राजा, मुद्रिकया मंत्री, यज्ञोपवीतेन च पुरोहितश्चौरो ज्ञातः । ततश्चित्ते तेन विचारितम्-अहो, यदि राजा एवं करोति, तदा कस्याग्रे
For Private And Personal Use Only