Book Title: Samyaktva Kaumudi
Author(s): Tulsiram Kavyatirth, Udaylal Kasliwal
Publisher: Hindi Jain Sahityik Prasarak Karayalay

View full book text
Previous | Next

Page 241
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सम्यक्त्व-कौमुद्यां ततो निर्गत्य सार्थवाहेन सहोमयः स्वभगिनीसमीपे कौशाम्बी नगरी गतः । जिनदत्तया स्वबन्धुमवलोक्य विरूपका वाती च श्रुत्वा मन्दादरः कृतः । तथा चोक्तम् " वार्ता च कौतुकवती विशदा च विद्या लोकोत्तरः परिमलश्च कुरंगनाभेः। तैलस्य बिन्दुरिव वारिणि दुर्निवार मेतत् त्रयं प्रसरतीति किमत्र चित्रम् ॥" उमयेनोक्तं-मन्दमाग्योहं । ममात्राप्यापन्न त्यति । तथा चोक्तम् " खल्वाटो दिवसेश्वरस्य किरणैः सन्तापितो मस्तके छायार्थ समुपति सत्वरमसौ बिल्वस्य मूलं गतः । तत्रोच्चैर्महता फलेन पतता भग्नं सशब्दं शिरः प्रायो गच्छति यत्र भाग्यरहितास्तत्रापदामास्पदम् ॥" पुनश्च " कैवर्तकर्कशकरग्रहणच्युतोपि जाले पुनर्निपतितः शफरो वराकः । जालात्ततो विगलितो गिलितो बकेन वामे विधौ बत कुतो व्यसनानिवृत्तिः ॥" पुनरपि वैराग्यपरायणोनोमयेनोक्त-महो कष्टं खलु पराश्रयः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264