Book Title: Samyaktva Kaumudi
Author(s): Tulsiram Kavyatirth, Udaylal Kasliwal
Publisher: Hindi Jain Sahityik Prasarak Karayalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सम्यक्त्व कौमुद्यां
७-सम्यक्त्वप्राप्तकनकलता-कथा। पुनरप्यहंदासश्रेष्ठी कनकलतां प्रति भणति- भो भार्ये, ममाग्रे निजसम्यक्त्वग्रहणकारणं कथय । मा कथयति__ अवन्तिविषये उज्जयिनीनगरे राजा नरपालः । राज्ञी मदनवेगा । मंत्री मदनदेवः । भार्या सोमा । श्रेष्ठी समुद्रदत्तः । भार्या सागरदत्ता । पुत्र उमयः। पुत्री जिनदत्ता। कौशाम्बीनगरे जिनदत्तपरमश्रावकस्य विवाहयितुं दत्ता । स उमयः सप्तव्यसनाभिभूतो जातः । पितृमातृभ्यां निवारितोपि दुर्व्यसनं न मुश्चति । ताभ्याममाणि-उपार्जितं को लंघयति । प्रतिदिन नगरमध्ये चौरव्यापारं करोति । परद्रव्यापहारं क्रियमाणमुमयं रात्रौ यमदंडतलवरेण दृष्ट्वा श्रेष्ठिप्रतिपन्नेन बहुवारान्मोचितो न मारितः । यमदंडेन भणित-महो, एकोदरोत्पन्ना अपि न सर्वे सदृशा भवन्ति । जिनदत्ता साध्वी जाता, असौ महा पापीयान् जातः । तथा च
" वल्ली जाता सदृशकटुका स्तुम्बिका स्तुम्बिनीनां __ शब्दायन्ते सरसमधुरं शुद्धवंशे विलनाः। अन्यै मूढैवपुषि निहता दुस्तरं तारयन्ति
तेषां मध्ये ज्वलितहृदयाः शोणितं संपिबन्ति ॥" (?) एकदा यमदंडेन राज्ञो हस्त उमयं दत्वा भणितं-देव, राजश्रेष्ठिसमुद्रदत्तस्य पुत्रोयमुमय नामेति सहस्रधा निवार्यमाणोपि तस्करव्यापारं न त्यजति । अधुना देवस्य मनसि यद्विद्यते तत् करोतु । राज्ञोक्तं-समुद्रदत्तस्यैकदेशगुणोपि नास्ति कथं तस्य पुत्र
For Private And Personal Use Only

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264