Book Title: Samyaktva Kaumudi
Author(s): Tulsiram Kavyatirth, Udaylal Kasliwal
Publisher: Hindi Jain Sahityik Prasarak Karayalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमकथा ।
मवतीति । ततः समुद्रदत्तमाकार्य भणितं राज्ञा-मो समुद्रदत्त, एनं दुष्टं स्वगृहान्निर्घाटय, नो चेदनेन सह तवाप्यभिमानहानिर्भविष्यति । तथा च
"दुर्जनजनसंसर्गे साधुजनस्यापि दोषमायाति ।
दशमुखकृतापराधे जलधिगंभीरबन्धन प्राप्तः ।। सर्वथाऽनष्टनैकटयं विपदे व्रतशालिनाम् ।
वारिहारघटीपार्श्वे ताड्यते पश्य झल्लरी॥". स्वभार्या प्रति समुद्रदत्तो भणति-भो भायें, असौ झटिति निर्घाटनीयोन्यथा विरूपकं भवितुमर्हति । तथा चोक्तम्
" उत्कोचं प्रीतिदानं च द्यूतद्रव्यं सुभाषितम् ।
चौरस्यार्थविभागं च सद्यो जानाति पण्डितः ।।" " त्यजेदेकं कुलस्यार्थे " इति। तथा च
बहुभिर्न विरोद्धव्यं दुर्जयो हि महाजनः ।
स्फुरन्तमपि नागेन्द्रं भक्षयन्ति पिपीलिकाः ॥" ततो निजगृहान्निर्घाटित उमयः समुद्रदत्तेन । ततो माता दुःखिनी भूत्वा भणति । तथा च" जलनिधिपरतटगतमपि करतलमायाति यस्य भवितव्यम् । कस्तलमतमपि नश्यति यस्य च भवितव्यता नास्ति । "
For Private And Personal Use Only

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264