Book Title: Samyaktva Kaumudi
Author(s): Tulsiram Kavyatirth, Udaylal Kasliwal
Publisher: Hindi Jain Sahityik Prasarak Karayalay

View full book text
Previous | Next

Page 243
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सम्यक्त्व-कौमुद्यां स्वातौ सागरशुक्तिसंपुटगतं मुक्ताफलं जायते पायेणाधममध्यमोत्तमगुणाः संसर्गतो जायते ॥" पुनश्च-- " यथा चन्द्रं विना रात्रिः कमलेन सरोवरम् । तथा न शोभते जीवो विना धर्मेण सर्वदा ॥" ततो बहुतरं क्रयाणकं गृहीत्वा सार्थवाहैः सह निजनगरं प्रति निर्गत उमयः । एकस्मिन् दिने कतिपयजनैः सह मातृपितृदर्शनौत्सुक्यातिशयेनोमयोऽग्रतो भूत्वा निर्गतः । रात्रौ प्रमादवशात् मार्ग परित्यज्य महाटव्यां पतितः । प्रभाते सूर्योदयो जातः । ततः क्षुधादिपरिपीडितैर्मित्रै रूपरसगंधवर्णस्वादयुक्तानि मरणकारणानि किंपाकस्य फलानि दृष्ट्वा मक्षितानि । तदनन्तरमुमयस्य दत्तानि । तेनोक्तं-किनामधेयानि ? तैरुक्तं-नाम्ना किं, कटुकनीरसदुर्गंधस्वादरहितानि एवमादीनि परित्या ज्यान्यानि फलानि भक्षयित्वाऽऽत्मानं संतप्य । उमयेनोक्तंअज्ञातफलानां भक्षणे मम नियमोस्ति । न भक्षितानि । ततः सहायाः सर्वे मूछिताः सन्तो भूमौ पतिताः । तेषां शोकेन दुःखी भूत्वोमयो वदति-अहो, ईदृविधस्य फलस्य मध्ये कालकूटमस्ति को जानाति । तदनन्तरमुमयस्य व्रतनिश्चयपरीक्षणार्थ मनोज्ञं स्त्रीरूपं धृत्वा वनदेवतयाऽऽगत्य भणितं-रे पथिक, अस्य कल्पवृक्षस्य फलानि किमर्थं न भक्षितानि ? तव मित्रैर्यानि फलानि भक्षितानि तान्यन्यानि विषवृक्षस्य फलानि । असौ कल्पवृक्षः । अस्य वृक्षस्य फलानि पुण्यैर्विना न प्राप्यन्ते । अस्य वृक्षस्य फलानि For Private And Personal Use Only

Loading...

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264