Book Title: Samyaktva Kaumudi
Author(s): Tulsiram Kavyatirth, Udaylal Kasliwal
Publisher: Hindi Jain Sahityik Prasarak Karayalay

View full book text
Previous | Next

Page 223
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सम्यक्त्व-कौमुद्यां यति । पुनरपि राजा ब्रूते-भो सचिव, काष्ठमयोऽयं कृपाणो लोहमयः कथं जातः। मंत्री सर्ववृत्तान्तं निरूप्य भणति-भो स्वामिन् , मम लोहप्रहरणे नियमोस्ति । देवगुरुनिश्चयजनितपुण्यमाहात्म्येन मम काष्ठमयः कृपाणो लोहमयो जात इति ममोपरिक्षमां कुरु । इति श्रुत्वा लोकमंत्री प्रशंसितः पूजितश्च । देवैः पञ्चाश्चर्य कृत्वा मंत्री पूजितः। एतत् सर्व धर्ममाहात्म्यं दृष्ट्वा श्रुत्वा चानितंजयो राजा लोकाग्रे निरूपयति-अहो, जिनधर्म विहायान्यो धर्मो दुर्गतिं न विदारयति । अस्मिन् भवेपि सुखं नास्ति इत्येवं भणित्वा वैराग्यपरायणेन राज्ञा स्वपुत्र शत्रुजयं राज्ये संस्थाप्य, सोमशर्ममंत्रिणा स्वपुत्रं देवशर्मण मंत्रिपदे संस्थाप्य, राज्ञा मन्त्रिणाऽन्यैश्च बहुभिः समाधिगुप्तभट्टारकसमीपे तपो गृहीतं । केचन श्रावका जाताः । केचन भद्रपरिणामिनश्च जाताः । राश्या सुप्रभया, मन्त्रिमार्यया सोमया, अन्याभिश्च बह्वीभिरभयमत्यार्यिकासमीपे तपो गृहीतम् । काश्चन श्राविका जाताः । विष्णुश्रिया भणितं-भो स्वामिन् , एतन्मया सर्वमपि प्रत्यक्षेण दृष्टं । तदनन्तरं मम दृढतरं सम्यक्त्वं जातम् । एतत् सर्व श्रुत्वाऽहंहासेनोक्तं-भो भार्ये, यत्त्वया दृष्टं तत्सर्वमहं श्रद्दधामि, इच्छामि, रोचे । अन्याभिश्च तथैव भणितं । कुन्दलतयोक्त–मेतत् सर्वमसत्यमत एव नाहं श्रद्दधामि, नेच्छामि, न रोचे । एतवृत्तान्तं राज्ञा मंत्रिणा चौरेण च श्रुत्वा स्वमनसि भणितं-विष्णुश्रिया प्रत्यक्षेण दृष्टं, तत् कथामयं पापिष्ठा व्यलीकमिति निरूपयति । प्रभातसमये गर्दभे चढा For Private And Personal Use Only

Loading...

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264