________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सम्यक्त्व-कौमुद्यां
यति । पुनरपि राजा ब्रूते-भो सचिव, काष्ठमयोऽयं कृपाणो लोहमयः कथं जातः। मंत्री सर्ववृत्तान्तं निरूप्य भणति-भो स्वामिन् , मम लोहप्रहरणे नियमोस्ति । देवगुरुनिश्चयजनितपुण्यमाहात्म्येन मम काष्ठमयः कृपाणो लोहमयो जात इति ममोपरिक्षमां कुरु । इति श्रुत्वा लोकमंत्री प्रशंसितः पूजितश्च । देवैः पञ्चाश्चर्य कृत्वा मंत्री पूजितः।
एतत् सर्व धर्ममाहात्म्यं दृष्ट्वा श्रुत्वा चानितंजयो राजा लोकाग्रे निरूपयति-अहो, जिनधर्म विहायान्यो धर्मो दुर्गतिं न विदारयति । अस्मिन् भवेपि सुखं नास्ति इत्येवं भणित्वा वैराग्यपरायणेन राज्ञा स्वपुत्र शत्रुजयं राज्ये संस्थाप्य, सोमशर्ममंत्रिणा स्वपुत्रं देवशर्मण मंत्रिपदे संस्थाप्य, राज्ञा मन्त्रिणाऽन्यैश्च बहुभिः समाधिगुप्तभट्टारकसमीपे तपो गृहीतं । केचन श्रावका जाताः । केचन भद्रपरिणामिनश्च जाताः । राश्या सुप्रभया, मन्त्रिमार्यया सोमया, अन्याभिश्च बह्वीभिरभयमत्यार्यिकासमीपे तपो गृहीतम् । काश्चन श्राविका जाताः । विष्णुश्रिया भणितं-भो स्वामिन् , एतन्मया सर्वमपि प्रत्यक्षेण दृष्टं । तदनन्तरं मम दृढतरं सम्यक्त्वं जातम् । एतत् सर्व श्रुत्वाऽहंहासेनोक्तं-भो भार्ये, यत्त्वया दृष्टं तत्सर्वमहं श्रद्दधामि, इच्छामि, रोचे । अन्याभिश्च तथैव भणितं । कुन्दलतयोक्त–मेतत् सर्वमसत्यमत एव नाहं श्रद्दधामि, नेच्छामि, न रोचे । एतवृत्तान्तं राज्ञा मंत्रिणा चौरेण च श्रुत्वा स्वमनसि भणितं-विष्णुश्रिया प्रत्यक्षेण दृष्टं, तत् कथामयं पापिष्ठा व्यलीकमिति निरूपयति । प्रभातसमये गर्दभे चढा
For Private And Personal Use Only