SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थकथा। wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwww तथा चोक्तम् " त्यक्त्वापि निजप्राणान्परसुखावघ्नं खलः करोत्येव । पतिता कवले सद्यो वमयति खलु मक्षिका हि भोक्तारम् ॥" एतद्दष्टवचनं स्वमनसि धृत्वा राजा तूष्णीं स्थितः । एकदा राज्ञा कृपाणवार्ता चालिता । ततः कोशादुत्खातितो निजकृपाणो राज्ञा समस्तराजकुमाराणामने दर्शितः । तै राजपुत्रैः प्रशंसितः कृपाणः । एवं राज्ञा समस्तराजकुमाराणां कृपाणान्दृष्ट्वा सोमशर्माणं मंत्रिणं प्रति भणितं-भो मंत्रिन् , निजकृपाणं ममाग्रे दर्शय । तदनन्तरमिङ्गिताकारण मंत्रिणा स्वमनसि चिन्तितम् अहो, दुष्टव्यापारोयमन्यथा कथं मम कृपाणपरीक्षां राजा करोति । ततो मंत्री देवं गुरुश्च स्वमानसे स्मृत्वा भणति स्वमनसि-यदि मम देवगुरुनिश्चयोस्ति तीयं कृपाणो लोहमयो भवतु। एवं प्रतिज्ञाय सकोशोसि स्तेन राज्ञो हस्ते दत्तः । कोशात्कृपाणं राजा यदा निष्काशयति तदादित्यवद्देदीप्यमानो लोहमयो जातः । ततो दुष्टमुखमवलोक्य राजा वदति-रे दुष्टात्मन् , ममारोऽप्यन्यथा निरूपितं त्वया । अहो, दुष्टस्वभावोऽयं परावगुणं कथयितुं । राजा कुपितः । तदा मंत्रिणोक्तं-भो राजन् , राजा देवतास्वरूपस्तस्याग्रेऽसत्यं कदाचिदपि न वक्तव्यं । तथा चोक्तम्___“ सर्वदेवमयो राजा वदन्ति विग्धा जनाः । तत्सर्वदेववत् पश्येत् न व्यली न जातुचित् ॥ किन्तु कारणमस्ति । अत एवास्योपरि कोपं मा कुरु । एतेन यदुक्तं तत् सर्व सत्यमेव । राज्ञोक्त–महो, सत्पुरुषोयं, अपकारिण्यपि पुरुषे शुभं चिन्तयति । धिक्तं गुणकारिण्यप्यशुभ चिन्त For Private And Personal Use Only
SR No.020628
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorTulsiram Kavyatirth, Udaylal Kasliwal
PublisherHindi Jain Sahityik Prasarak Karayalay
Publication Year
Total Pages264
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy