SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ६८ www.kobatirth.org सम्यक्त्व-कौमुद्यां— Acharya Shri Kailassagarsuri Gyanmandir तद्यथा " मिथ्यादृष्टिसहस्रेभ्यो वरमेको जिनाश्रितः । जिनाश्रितसहस्रेभ्यो वरमेक उपासकः ॥ श्रावकाणां सहस्रेभ्यो वरमेको ह्यणुव्रती । अणुव्रतसहस्रेभ्यो वरमको महाव्रती ॥ महावतिसहस्रेभ्यो वरमेको जिनागमी । जिनाग मिसहस्रेभ्यो वरमेकः सुतत्ववित् ॥ सुतत्ववित्सहस्रेभ्यो वरमेको दयान्वितः । दयान्वितसमं यावन्न भूतो न भविष्यति ॥ वशीकृतेन्द्रियग्रामः कृतज्ञो विनयान्वितः । निष्कषायप्रशान्तात्मा सम्यग्दृष्टिर्महाशुचिः ॥" एवमादिगुणोपेतः सोमप्रभो राजा कालक्रमेणोयं तपः कृत्वाऽन्तःसुखी जातः । एतत् सर्वं बहु सुवर्णयज्ञवृन्तान्तं श्रुत्वा सोमशर्मा मंत्री भणति -- भो भगवन्, सम्प्रति तव पादौ शरणौ, मम जिनधर्मे प्रसादं कुरु। एतद्वचनं श्रुत्वा मुनिना दर्शनपूर्वकं श्रावकत्रतं दत्तम् । श्रावकत्रतं गृहीत्वा मंत्री वदति - भो भगवन्, ' इह जन्मनि मम लोहप्रहरणे नियम' इति काष्ठकृपाणं कारयित्वा मनोज्ञकोपमध्ये निक्षिप्य राजसेवां करोति । एवं बहुकालो जातः । एकदा केनचिद्दुष्टेन राज्ञो निरूपितं - देव, सोमशर्मा मंत्री काष्ठखङ्गेन तव सेवां करोति - लोहप्रहरणं विना संग्रामे कथं सुभटान्मारयति । अत एव देव, तव भक्तो न भवत्यसौ सौमशर्मा | For Private And Personal Use Only
SR No.020628
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorTulsiram Kavyatirth, Udaylal Kasliwal
PublisherHindi Jain Sahityik Prasarak Karayalay
Publication Year
Total Pages264
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy