Book Title: Samyaktva Kaumudi
Author(s): Tulsiram Kavyatirth, Udaylal Kasliwal
Publisher: Hindi Jain Sahityik Prasarak Karayalay

View full book text
Previous | Next

Page 236
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठकथा | ८३ Į रतीव दुःखिनी जाता । एकदा वरं प्राप्य बुद्धदासेनोक्तं - हे वधू, म गुरुणा तव पितुर्जन्म कथितं मृत्वा वनमध्ये मृगोभूत् । एतद्वचनं श्रुत्वा मनसि महाक्रोधं कृत्वा प्रतारणपरं वचनमभाणि पद्मश्रिया - यद्भवतां गुरव एवंविधा ज्ञातारो भवन्ति तर्हि मया बौद्धव्रतं गृह्यते । इत्येवं निरूप्य तेषां बौद्धयतीनां भोजनार्थमामन्त्रणं दत्तं । ते सर्वेपि हर्षिताः समागताः । ततो महतादरेण निजगृहमध्य उपवेशिताः पूजिताश्च । बाह्यप्रदेशे तेषां वामपादस्यैकैकं पादत्राणं गृहीत्वा सूक्ष्मं यथा भवति तथोत्कृत्य भोजनं मध्ये निक्षिप्य सर्वेपि भोजनं कारिताः प्रशंसिताश्च । गंधलेपताम्बूलादिकं सर्वमपि कृत्वा भणितं - प्रातर्मया बौद्धव्रतं गृह्यते । तैरुक्तं - तथास्तु । ततो निर्गमनसमय एकैकं पादत्राणं न पश्यन्ति । खेटके प्रव्यक्तमस्माकं पादत्राणमेकैकं केन नीतमेतत् कोलाहलं श्रुत्वा पद्मश्रिया भणितं - भवन्तो ज्ञानिनो ज्ञानेन पश्यन्तु । तैरुक्त - मेवंविधं ज्ञानं नास्ति । पद्मश्रिया भणितं - स्वस्वोदरस्थितं पादत्राणं न जानन्ति कथं मम पितुर्गतिज्ञातारः ? तैरुक्तं किं पादत्राणमस्माकमुदरे तिष्ठति ? पद्मश्रियोक्तमत्र किं संदेहोस्ति ? एवं निरूप्य वामिताः । सूक्ष्मं चर्मखंडं दृष्ट्वा लज्जिताः । तदनन्तरं बुद्धदासस्याग्रे निरूपितं -रे पापिष्ठ, तवोपदेशेन पद्मश्रिया यदवाच्यं तत्कृतम् । एतत् सर्व ज्ञात्वा सर्वस्वं गृहीत्वा बुद्धदासेन निजगृहात् पद्मश्रीबुद्धसिंहौ निःसारितौ । पद्मश्रियोक्तं - हे बुद्धसिंह, मम मातृगृह आवां गच्छावः । तेनोक्तं - परं भिक्षाटनं करोमि न गोत्रमध्ये गच्छामि । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264