________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठकथा |
८३
Į
रतीव दुःखिनी जाता । एकदा वरं प्राप्य बुद्धदासेनोक्तं - हे वधू, म गुरुणा तव पितुर्जन्म कथितं मृत्वा वनमध्ये मृगोभूत् । एतद्वचनं श्रुत्वा मनसि महाक्रोधं कृत्वा प्रतारणपरं वचनमभाणि पद्मश्रिया - यद्भवतां गुरव एवंविधा ज्ञातारो भवन्ति तर्हि मया बौद्धव्रतं गृह्यते । इत्येवं निरूप्य तेषां बौद्धयतीनां भोजनार्थमामन्त्रणं दत्तं । ते सर्वेपि हर्षिताः समागताः । ततो महतादरेण निजगृहमध्य उपवेशिताः पूजिताश्च । बाह्यप्रदेशे तेषां वामपादस्यैकैकं पादत्राणं गृहीत्वा सूक्ष्मं यथा भवति तथोत्कृत्य भोजनं मध्ये निक्षिप्य सर्वेपि भोजनं कारिताः प्रशंसिताश्च । गंधलेपताम्बूलादिकं सर्वमपि कृत्वा भणितं - प्रातर्मया बौद्धव्रतं गृह्यते । तैरुक्तं - तथास्तु । ततो निर्गमनसमय एकैकं पादत्राणं न पश्यन्ति । खेटके प्रव्यक्तमस्माकं पादत्राणमेकैकं केन नीतमेतत् कोलाहलं श्रुत्वा पद्मश्रिया भणितं - भवन्तो ज्ञानिनो ज्ञानेन पश्यन्तु । तैरुक्त - मेवंविधं ज्ञानं नास्ति । पद्मश्रिया भणितं - स्वस्वोदरस्थितं पादत्राणं न जानन्ति कथं मम पितुर्गतिज्ञातारः ? तैरुक्तं किं पादत्राणमस्माकमुदरे तिष्ठति ? पद्मश्रियोक्तमत्र किं संदेहोस्ति ? एवं निरूप्य वामिताः । सूक्ष्मं चर्मखंडं दृष्ट्वा लज्जिताः । तदनन्तरं बुद्धदासस्याग्रे निरूपितं -रे पापिष्ठ, तवोपदेशेन पद्मश्रिया यदवाच्यं तत्कृतम् । एतत् सर्व ज्ञात्वा सर्वस्वं गृहीत्वा बुद्धदासेन निजगृहात् पद्मश्रीबुद्धसिंहौ निःसारितौ । पद्मश्रियोक्तं - हे बुद्धसिंह, मम मातृगृह आवां गच्छावः । तेनोक्तं - परं भिक्षाटनं करोमि न गोत्रमध्ये गच्छामि ।
For Private And Personal Use Only