SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सम्यक्त्व-कौमुद्यां तथा चोक्तम् " वरं वनं व्याघ्रगजेन्द्रसेवितं द्रुमालये पत्रफलादिभोजनम् । तृणेषु शय्या वरजीर्णवल्कलं __ न बन्धुमध्ये धनहीनजीवितम् ॥" ततो देशान्तरे चलितौ द्वौ ग्रामाह्वहिः सार्थवाहयोर्मिलितौ । पद्मश्रीरूपं दृष्ट्वा तौ सार्थवाही परस्परं लोभं गतौ । परस्परेण विषान्नं भुक्त्वा मृतौ । बुद्धसिंहो भार्यया निवारितोपि रात्रौ विषान्नं भुक्त्वा मच्छी गतः । निजस्वामिशोकं कुर्वन्त्या पद्मश्रिया विभावरी निर्गमिता । प्रभाते केनचिद् बुद्धदासस्याग्रे निरूपितं-हे बुद्धदास, तव पुत्रो मृतः। एतत् वचनं श्रुत्वा महाशोकं कृत्वा च तत्रैवागत्य भणितं-हे शाकिनि, त्वया मम पुत्रो भक्षितः । एतौ सार्थ. वाहौ च भक्षितौ । किं बहुनोक्तेन मम पुत्रमुत्थापय, अन्यथा तव निग्रहं करिष्यामीत्येवं निरूप्य तस्याः पादमूले पुत्रं संस्थाप्य रोदनं कृतवान् । पद्मश्रिया भणितं-मम यः कर्मोदय आगतः स केन निवार्यते । एवं निश्चित्य कृताञ्जलिर्भूत्वा सा भणति-यदि मम मनसि जिनमार्गनिश्चयोस्ति, यद्यहं पतिव्रता भवामि, यदि मया रात्रिभोजनादिकं निषिद्धमस्ति, तर्हि भो शासनदेवते, मम भर्ता जीवतु । एते सर्वेपि सार्थवाहा जीवन्तु । ततस्तस्या व्रतमाहात्म्येन सर्वेप्युत्थिताः । ततो नगरजनैरबलाबालगोपालादिभिः प्रशंसिता। अहो धन्येयं, ईदृम्विधे रूपे सत्यपि साधुत्वं तदाश्चर्य । For Private And Personal Use Only
SR No.020628
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorTulsiram Kavyatirth, Udaylal Kasliwal
PublisherHindi Jain Sahityik Prasarak Karayalay
Publication Year
Total Pages264
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy