________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठकथा ।
उक्तश्च
" किं चित्रं यदि राजनीतिनिपुणो राजा भवेद्धार्मिकः
किं चित्रं यदि वेदशास्त्रनिपुणो विपो भवेत् पंडितः । तच्चित्रं यदि रूपयौवनवती साध्वी भवेत् कामिनी ___ तच्चित्रं यदि निर्धनोपि पुरुषः पापं न कुर्याद्यतः ॥" एतदाश्चर्य कृत्वा पूजिता लोकैरपि । ततो देवैः पञ्चाश्चर्य कृत्वा पूजिता पद्मश्रीः । एतत् सर्व प्रत्यक्षेण दृष्ट्वा श्रुत्वा च वैराग्यपरः सन् धाडिवाहनो राजा वदति-अहो, जिनधर्म विहायान्यत्र सर्वेष्टं न लभ्यते । अत एवासौ स्वीकर्तव्यः । ततः स्वपुत्रं नयविक्रमं राज्ये संस्थाप्य धाडिवाहनेन राज्ञाऽन्यैश्च बहुभिर्यशोधरमुनिपार्श्वे तपो गृहीतम् । बुद्धदासबुद्धसिंहादयश्च श्रावका जाताः । केचन भद्रपरिणामिनो जाताः । राज्ञी बुद्धदासी, वृषभदासभार्या पद्मावती, पद्मश्रीप्रभृतयश्च सरस्वत्यर्यिकासमीपे तपो जग्रहः। पद्मलतयोक्तं हे स्वामिन्, एतत सर्व मया प्रत्यक्षेण दृष्टमतो मम दृढतरं सम्यक्त्वं जातम् । अर्हहासेनोक्तं-भो भायें, यत्त्वया दृष्टं तदहं श्रद्दधामि, इच्छामि, रोचे । अन्याभिश्च तथैव भणितं । ततः कुन्दलतयोक्तंसर्वमेतदसत्यम् । एतत् सर्वमपि राज्ञा मंत्रिणा चौरेण च श्रुत्वा स्वस्वमनसि भणित-महो, पद्मलतया यत् प्रत्यक्षेण दृष्टं तदसत्यमिति कथमियं पापिष्ठा कुन्दलता निरूपयति । प्रभातसमये गर्दभे चटाप्यास्या निग्रहं करिष्यामो वयम् । पुनरपि चौरेणेस्वमनसि भणितमहो, दुष्टस्वभावोयम् ।
इति षष्ठी कथा।
For Private And Personal Use Only