________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सम्यक्त्व कौमुद्यां
धर्माणां मध्ये बौद्धधर्म एव धर्मो नान्यः । पद्मश्रियोक्तं हे पद्मसंघ, सन्मार्ग परित्यज्य नीचमार्ग कथं मम मनः प्रवर्तते । तथा चोक्तम्
." वनेपि सिंहा मृगमांसभक्षकाः
बुभुक्षिता नैव तृणं चरन्ति । एवं कुलीना व्यसनाभिभूता
न नोंचकर्माणि समाचरन्ति ॥"
अन्यच्च
" अद्यापि रक्षति हरः किल कालकूटं ___कूर्मों बिभर्ति धरिणीं खलु पृष्ठभागे । अंभोनिधिर्वहति दुःसहवाडवाग्निमंगीकृतं सुकृतिनः परिपालयन्ति ॥"
तथा च
"निःसौभाग्यो भवेन्नित्यं धनधान्यादिवर्जितः। भीतमूर्तिः सदा दुःखी व्रतहीनश्च मानवः ॥" आत्मना स्वहितमाचरणीयं
किं करिष्यति जनो बहुजल्पः । विद्यते न हि कश्चिदुपायः
सर्वलोकपरितोषकरो यः॥
तत्पद्मश्रीवचनं श्रुत्वा पद्मसंघः स्वगृहं गतः । एकदा पद्मश्रीपिता वृषभदासो मृत्वा स्वर्ग गतः । दुःखेन पद्मश्री
For Private And Personal Use Only