________________
Shri Mahavir Jain Aradhana Kendra
.८१
मानीतः । भोजनसमये स बुद्धदासो भोजनं न करोति । वृषभदासेनोक्तं- भो बुद्धदास, किमर्थं भोजनं न करोषि ? तेनोक्तं- यदि मम पुत्राय स्वकीयां पुत्रीं ददाति चेत् तदा भुज्यते नान्यथा ।
उक्तं च
----
www.kobatirth.org
वृषभदासेनोक्तम् - अहो, सुहृदो येषां गृह आगच्छन्ति ते धन्या, अत एव वयं धन्याः । अवश्यं दास्यामि पुत्रीं । ततः शुभदिने विवाहो जातः । ततः पद्मश्रियं गृहीत्वा बुद्धसिंहः स्वगृहं गतः । पुनरपि बुद्धभक्तौ जातौ । तत् सर्वं दृष्ट्वा श्रुत्वा च वृषभदासश्रेष्ठी विखिन्नो भूत्वा वदत्यहो, गूढप्रपञ्चं कोपि न जानाति ।
पुनश्च -
66
षष्ठकथा ।
66
' सुगुप्तस्यापि दंभस्य ब्रह्माप्यन्तं न गच्छति । कौलिको विष्णुरूपेण राजकन्यां निषेवते ।”
पुनश्च -
Acharya Shri Kailassagarsuri Gyanmandir
मायामविश्वासविलासमन्दिरां दुराशयो यः कुरुते धनाशया ।
सोनर्थसारं न पतन्तमीक्षते
यथा बिडालो लगुडं पयः पिवन् ॥
"
“ प्राणान्तेपि न भङ्क्तव्यं गुरुसाक्षिश्रुतं व्रतम् । व्रतभङ्गो हि दुःखाय प्राणा जन्मनि जन्मनि ॥”
इत्येवं निरूप्य वृषभदासः श्रेष्ठी तूष्णीं स्थितः । एकदा बुद्धदासस्य यो गुरुः पद्मसंघस्तेन पद्मश्रियं प्रति भणितं - भो पुत्र, सर्व
६
For Private And Personal Use Only