________________
Shri Mahavir Jain Aradhana Kendra
८०
सम्यक्त्व-कौमुद्यां
मूर्खोयं सर्वमपि सुसाध्यं न तु मूर्खचित्तं । तथा चोक्तम् —
www.kobatirth.org
""
“ प्रसह्यमणिमुद्धरेन्मकरवक्वदंष्ट्रांकुरा - त्समुद्रमपि संतरेत्प्रचलदुर्मिमालाकुलम् । भुजंगमपि कोपितं शिरसि पुष्पवदाधारयेन तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥ "
यो यस्य स्वभावस्तं स शतैरपि शिक्षावचनैर्न त्यजति । पित्रोक्तं - भो पुत्र, स्थिरी भव । तत्कार्य क्रमेण करिष्यामि ।
तथा चोक्तम्
Acharya Shri Kailassagarsuri Gyanmandir
(( क्रमेण भूमिः सलिलेन भिद्यते क्रमेण कार्य विनयेन सिद्धयति ।
क्रमेण शत्रुः कपटेन हन्यते
तथा च
क्रमेण मोक्षः सुकृतेन गम्यते ॥ "
I
इत्येवं निरूप्य महता प्रपञ्चेन पितृपुत्रौ जैनौ जातौ । तयोजैनत्वं दृष्टा वृषभदासश्रेष्ठी महासंतुष्टो भूत्वा भणति - अहो, एतौ धन्यौ, मिथ्यात्वं परित्यज्य सन्मार्गे लग्नौ । इति बुद्धदोसन सह महती मैत्री जाता ।
" ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति । भुङ्क्ते भोजयते चैव षड्विधं प्रीतिलक्षणम् ॥ "
एकदा तेन वृषभदासश्रेष्ठिना बुद्धदासः स्वगृहे भोजनार्थ
For Private And Personal Use Only