SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठकथा । पद्मश्रीर्महारूपवती । तस्मिन्नेव नगरेऽपरश्रेष्ठी बुद्धदासो बौद्धधर्ममध्ये प्रसिद्धदाता । भार्या बुद्धदासी । पुत्रो बुद्धसिंहः । स बुद्धसिंहो निजमित्रकामदेवेन सहैकदा कोलाहलेन जिनचैत्यालये गतः । तत्र देवपूजां कुर्वती महारूपवती पद्मश्रीस्तेन बुद्धसिंहेन दृष्टा । श्यामा सा रूपयौवनसम्पन्ना, मधुरवाक्, कुंभस्तनी, बिम्बोष्ठी, चन्द्रवदना च । एवं विधं पद्मश्रीरूपमवलोक्य नीचः कामान्धो जातः । महता कष्टेन निजगृहं गत्वा शय्योपरि पतितः । चिन्ताप्रपन्नं पुत्रं दृष्ट्वा मात्रा भणितं -रे पुत्र, केन कारणेन तव भोजनादिकं न प्रतिभाति । महती चिन्ता विद्यते तव । कारणं कथय । लज्जां मुक्त्वा बुद्धसिंहनोक्तं - हे मातर्यदा वृषभदासश्रेष्ठिपुत्री पद्मश्रियमहं विवाहयिष्यामि तदा मम जीवितं नान्यथा । एवं श्रुत्वा बुद्धदास्या निजस्वामिनाग्रे पुत्रवृतान्तं सर्वमपि निरूपितं । पित्रागत्य भणितं-रे पुत्र, मद्यमांसाहारिणोऽस्मान् स वृषभदास चांडालवत् पश्यति, तव कथं कन्यां प्रयच्छति । अत एव साध्यवस्तुविषये आग्रहः क्रियते नान्यत्र । अन्यच्च “ ययोरेव समं शीलं ययेोरेव समं कुलम् । ययोरेव गुणैः साम्यं तयोर्मैत्री भवेद्ध्रुवम् ॥ 77 ७९ 1 पुत्रेणोक्त - किं बहु जल्पनेन, तया विना न जीवामि । पित्रोक्त - महो, विषमं कामस्य माहात्म्यं । कामवह्निप्रदीपितोऽमृतसिञ्चनेनापि न शाम्यति । 66 तावद्धत्ते प्रतिष्ठां परिहरति मनश्वापलं चैव ताव - तावसिद्धान्तसूत्रं स्फुरति हृदि परं विश्वतत्वेकदीपम् । क्षीणाकूपारवेलावलयविलसितैर्मानिनीनां कटाक्षै र्यावन्नो हन्यमानं कलयति हृदयं दीर्घलोलायितानि ॥ " For Private And Personal Use Only
SR No.020628
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorTulsiram Kavyatirth, Udaylal Kasliwal
PublisherHindi Jain Sahityik Prasarak Karayalay
Publication Year
Total Pages264
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy