Book Title: Samyaktva Kaumudi
Author(s): Tulsiram Kavyatirth, Udaylal Kasliwal
Publisher: Hindi Jain Sahityik Prasarak Karayalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचमकथा |
ग्यास्या निग्रहं करिष्यामो वयम्। पुनरपि चौरेण स्वमनसि चिन्तितम्अहो, खलो जात्युत्तमपि सन् स्वभावं न त्यजति । तथा चोक्तम्
" चन्दनादपि सम्भूतो दहत्येव हुताशनः । विशिष्ट कुलजातोपि यः खलः खल एव सः ॥ " इति चतुर्थी कथा |
७१
५ – सम्यक्त्व प्राप्तनागश्रियः कथा ।
ततो नागश्रियं प्रति भणितं भो भार्ये, स्वसम्यक्त्वग्रहणकारणं कथय । सा कथयति
काशीविषये वाराणस्यां पुरि सोमवंशोद्भूतो राजा जितारिः । राज्ञी कनक्चित्रा । पुत्री मुंडिका । सा मुंडिका प्रतिदिनं मृत्तिकां भक्षयति । अतोतिरोगपीडिता बभूव ।
राजमंत्री सुदर्शनो । भार्या सुदर्शना । एकदा वृषभश्रियाऽऽर्यिकया सा मुंडिका प्रतिबोध्य जैनी कृता । सत्पुरुषाणां स्वभावोयं यत् परोपकारं करोति । तदनन्तरं निरतीचारं श्रावकत्रतं प्रतिपालयन्ती व्रतमाहात्म्येन नीरोगा जाता । तदाऽऽर्यिकयोक्तं - यो निरवद्यवतं पालयति स स्वर्गादिभाजनं भवति, रूपस्य का वार्ता । जितारिणा पुत्र्या अग्रे विवाहार्थं सर्वेपि राजकुमारा दर्शिताः स्वयंवरे । तस्या मनसि कोपि न प्रतिभासते । ततो राजपुत्राः स्वस्थानं जग्मुः । एकदा तुंडविषये चक्रकोटनाम्नि नगरे राजा भगदत्तः दानशूरो रूपलावण्यादि -
For Private And Personal Use Only

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264