Book Title: Samyaktva Kaumudi
Author(s): Tulsiram Kavyatirth, Udaylal Kasliwal
Publisher: Hindi Jain Sahityik Prasarak Karayalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
७२
सम्यक्त्व-कौमुद्यां
I
गुणोपेतः समस्तवस्तुपरिपूर्णः, परन्तु जातिहीनः । तस्य राज्ञी लक्ष्मीमतिः । मंत्री सुबुद्धिः । तस्य भार्या गुणवती । तेन भगदत्तेम सा मुंडिका याचिता । जितारिणाऽभाणि - रेऽजन्मन्, या सुतोत्तमराजपुत्रेभ्यो न दत्ता, भगदत्त तव पापिष्ठस्य कथं तां पुत्रीं दास्यामि । तेनोक्तं - भो राजन् गुणेन भवितव्यं किं जन्मना ? जितारिणोक्तंरणमध्ये तव वाञ्छितं सर्वमपि दास्यामि । एतद्वचनं श्रुत्वा महाकोपं कृत्वा भगदत्तो राजा जितार्युपरि चलितः । सुबुद्धिना भणितं - हे भगदत्त, समस्तयुद्धसामग्रीं कृत्वा गम्यते । अन्यथा नाश एव भवति ।
ܕ
तथा चोक्तम्
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
" स्वकीयबलमज्ञात्वा संग्रामार्थं तु यो नरः । गच्छत्यभिमुखो नाशं याति वह्नौ पतंगवत् ॥ "
उक्तं च
-
यथा राजा भृत्यैर्विना न शोभते, यथा च रविरंशरहितो न शोभते तद्वदेकेन बलवान् न, समुदायेन बलवान् भवेत् । यथा तृणै रज्जुं कृत्वा नागो बध्यते ।
(( एवं ज्ञात्वा नरेन्द्रेण भृत्या कार्या विचक्षणाः । कुलीनाः शौर्यसंयुक्ताः शक्ता भक्ताः क्रमागताः ॥ भगदत्तेन राज्ञोक्तं- भो सुबुद्धे, हितरूपेण यदुक्तं त्वया तत् सर्वमपि सत्यमत एव हितचिन्तकस्य वचनं स्वीकारणीयमन्यथा विरूपकमेव भवति । ततः सर्वसामग्री मेलयित्वा निर्गमनोद्योगः कृतः । एतस्मिन् प्रस्तावे लक्ष्मीमत्या राज्ञ्या भणितं - भो स्वामिन् ।
For Private And Personal Use Only
ܕܐ

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264