SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ७२ सम्यक्त्व-कौमुद्यां I गुणोपेतः समस्तवस्तुपरिपूर्णः, परन्तु जातिहीनः । तस्य राज्ञी लक्ष्मीमतिः । मंत्री सुबुद्धिः । तस्य भार्या गुणवती । तेन भगदत्तेम सा मुंडिका याचिता । जितारिणाऽभाणि - रेऽजन्मन्, या सुतोत्तमराजपुत्रेभ्यो न दत्ता, भगदत्त तव पापिष्ठस्य कथं तां पुत्रीं दास्यामि । तेनोक्तं - भो राजन् गुणेन भवितव्यं किं जन्मना ? जितारिणोक्तंरणमध्ये तव वाञ्छितं सर्वमपि दास्यामि । एतद्वचनं श्रुत्वा महाकोपं कृत्वा भगदत्तो राजा जितार्युपरि चलितः । सुबुद्धिना भणितं - हे भगदत्त, समस्तयुद्धसामग्रीं कृत्वा गम्यते । अन्यथा नाश एव भवति । ܕ तथा चोक्तम् www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir " स्वकीयबलमज्ञात्वा संग्रामार्थं तु यो नरः । गच्छत्यभिमुखो नाशं याति वह्नौ पतंगवत् ॥ " उक्तं च - यथा राजा भृत्यैर्विना न शोभते, यथा च रविरंशरहितो न शोभते तद्वदेकेन बलवान् न, समुदायेन बलवान् भवेत् । यथा तृणै रज्जुं कृत्वा नागो बध्यते । (( एवं ज्ञात्वा नरेन्द्रेण भृत्या कार्या विचक्षणाः । कुलीनाः शौर्यसंयुक्ताः शक्ता भक्ताः क्रमागताः ॥ भगदत्तेन राज्ञोक्तं- भो सुबुद्धे, हितरूपेण यदुक्तं त्वया तत् सर्वमपि सत्यमत एव हितचिन्तकस्य वचनं स्वीकारणीयमन्यथा विरूपकमेव भवति । ततः सर्वसामग्री मेलयित्वा निर्गमनोद्योगः कृतः । एतस्मिन् प्रस्तावे लक्ष्मीमत्या राज्ञ्या भणितं - भो स्वामिन् । For Private And Personal Use Only ܕܐ
SR No.020628
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorTulsiram Kavyatirth, Udaylal Kasliwal
PublisherHindi Jain Sahityik Prasarak Karayalay
Publication Year
Total Pages264
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy