SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचमकथा । किमर्थं निरर्थो दुराग्रहः क्रियते ? यत्रोभयोः साम्यं तत्र विवाहमैत्र्यादिकं भवति नान्यथा अत एवायुक्तं न कर्तव्यं । उक्तं च अव्यापारेषु व्यापार यो नरः कर्तुमिच्छति। स एव मरणं याति कीलोत्पाटीव वानरः ॥ भगदत्तेनोक्तं-भो मूर्खे, पुरुषपुरुषान्तरे कारणमस्ति । जितारिणा युद्धमध्ये सर्वमपि दीयते, ममाग्रे एवं निरूपितं । अद्याहं तथा न करोमि चेत् ततोन्येषामपि भूपतीनामहं न भवामि मान्यः । उक्तं च " यज्जीव्यते क्षणमपि प्रथितैर्मनुष्यैः विज्ञानशौर्यविभवार्यगुणैः समेतैः । तस्यैव जीवितफलं प्रवदन्ति सन्तः ___ काकोपि जीवति चिरं च बलिं च भुते ॥" ततो महासम्भ्रमेण निर्गतः । लक्ष्मीमत्या भणितं- ' यद्भाव्यं तद्भविष्यति' । निर्गमनसमये शुभशकुनानि जातानि । तद्यथादधिदूर्वाक्षतपात्रं, जलकुंभेषु दंडपद्मनी, प्रसूतवती स्त्रीः, वीणाप्रभृतिकमने सुदर्शनं जातम् । केनचित् पुरुषेणागत्य जितरिराज्ञोग्रे निरूपितमेकान्तेन-देव, भगदत्तराज्ञो बलमागतम् । गर्वान्वितेन राज्ञा भणितं-रे वराक, स कोपि महीतलेऽस्ति यो ममोपरि चलति ? अहं जितारिनामेति । For Private And Personal Use Only
SR No.020628
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorTulsiram Kavyatirth, Udaylal Kasliwal
PublisherHindi Jain Sahityik Prasarak Karayalay
Publication Year
Total Pages264
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy