________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७४
सम्यक्त्व-कौमुद्यां
तथा चोक्तम्
" दृष्टं श्रुतं न क्षितिलोकमध्ये __ मृगा मृगेन्द्रोपरि संचलन्ति। विधुन्तुदस्योपरि चन्द्रमाौं
किं वा बिडालोपरि मूषकाः स्युः ॥ किं वैनतेयोपरि कान्वेयः
किं सारमेयोपरि लंबकर्णः। किं वै कृतान्तोपरि भूतवर्णः
किं कुत्र सैन्योपरि वायसाः स्युः ॥" यावद् भास्करो नोदेति तावत्तमः । इत्येवं यावद् भणति तावद् गुप्तवृत्त्यागत्य वाराणसीपुरं वेष्टितं भगदत्तेन राज्ञा । कोलाहलं श्रुत्वा महता संभ्रमेण चतुरंगबलेन निर्गतो जितारिः । निर्गमनसमयेऽपशकुनानि जातानि । तथा चोक्तम्
" अकालवृष्टिस्त्वथ भूमिकम्पो
निर्घात उल्कापतनं प्रचण्डम् । इत्याद्यनिष्टानि ततो बभुवु
निवारणार्थे सुहृदो यथैव ॥" अस्मिन् प्रस्तावे सुदर्शनमंत्रिणा भणितं हे देव, कन्यां दत्वा सुखेन स्थीयते । तथा चोक्तम्
" क्षन्ति देशं ग्रामेण ग्राममेकं कुलेन च।।
कुलमेकेन चात्मानं पृथ्वीत्यागेन पंडिताः॥"
For Private And Personal Use Only