SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पंचमकथा | जितारिणोक्तं-रे मंत्रिन्, किमर्थं विभेषि ? मम खङ्गघातं सोढुं कः समर्थः । तथा चोक्तम् यतः Acharya Shri Kailassagarsuri Gyanmandir 77 " कोस्मिन् लोके शिरसि सहते यः पुमान् वज्रघातं कोस्तीदृग्यस्तरति जलधिं बाहुदण्डैरपारम् । कोस्त्यस्मिन्यो दहनशयने सेवते सौख्यनिद्रां ग्रासैर्ग्रासौर्गलति सततं कालकूटं च कोपि ॥ पुनमैत्रिणाऽसमसन्नाहसंयुक्तं परदलं दृष्ट्वा निरूपितं देव, बहुबल समागतं युद्धं न क्रियते । जितारिणोक्तं- मन्त्रिन्, 'सत्वेन सिद्धि - जयश्व न बहुसामग्र्या यदुक्तं ' । ततो भगदत्तेन दूतः प्रेषितः । दूतलक्षणं - I एतादृशो दूतः प्रस्थापितः । यदुक्तम्---- “ मेघावी वाक्पटुश्चैव परचित्तोपलक्षकः । धीरो यथोक्तवादी च एतद्दूतस्य लक्षणम् ॥ " 66 पुरा दूतः प्रकर्तव्यः पश्वाद् युद्धः प्रकाश्यते । दूतेन सबलं सैन्यं निर्बल ज्ञायते ध्रुवम् ॥ " तेन दूतेन जितारिराज्ञो गत्वोक्तं- हे राजन्, मुंडिकां प्रदाय भगदत्तनरेन्द्रस्य सुखेन राज्यं कुरु । अन्यथा नाशो भवति । ७५ " अनुचितकर्मारंभः स्वजनविरोधो बलीयसां स्पर्द्धा । प्रमदाजनविश्वासो मृत्योर्द्वाराणि चत्वारि ॥ " For Private And Personal Use Only
SR No.020628
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorTulsiram Kavyatirth, Udaylal Kasliwal
PublisherHindi Jain Sahityik Prasarak Karayalay
Publication Year
Total Pages264
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy