Book Title: Samyaktva Kaumudi
Author(s): Tulsiram Kavyatirth, Udaylal Kasliwal
Publisher: Hindi Jain Sahityik Prasarak Karayalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थकथा।
wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwww
तथा चोक्तम्
" त्यक्त्वापि निजप्राणान्परसुखावघ्नं खलः करोत्येव ।
पतिता कवले सद्यो वमयति खलु मक्षिका हि भोक्तारम् ॥" एतद्दष्टवचनं स्वमनसि धृत्वा राजा तूष्णीं स्थितः । एकदा राज्ञा कृपाणवार्ता चालिता । ततः कोशादुत्खातितो निजकृपाणो राज्ञा समस्तराजकुमाराणामने दर्शितः । तै राजपुत्रैः प्रशंसितः कृपाणः । एवं राज्ञा समस्तराजकुमाराणां कृपाणान्दृष्ट्वा सोमशर्माणं मंत्रिणं प्रति भणितं-भो मंत्रिन् , निजकृपाणं ममाग्रे दर्शय ।
तदनन्तरमिङ्गिताकारण मंत्रिणा स्वमनसि चिन्तितम् अहो, दुष्टव्यापारोयमन्यथा कथं मम कृपाणपरीक्षां राजा करोति । ततो मंत्री देवं गुरुश्च स्वमानसे स्मृत्वा भणति स्वमनसि-यदि मम देवगुरुनिश्चयोस्ति तीयं कृपाणो लोहमयो भवतु। एवं प्रतिज्ञाय सकोशोसि स्तेन राज्ञो हस्ते दत्तः । कोशात्कृपाणं राजा यदा निष्काशयति तदादित्यवद्देदीप्यमानो लोहमयो जातः । ततो दुष्टमुखमवलोक्य राजा वदति-रे दुष्टात्मन् , ममारोऽप्यन्यथा निरूपितं त्वया । अहो, दुष्टस्वभावोऽयं परावगुणं कथयितुं । राजा कुपितः । तदा मंत्रिणोक्तं-भो राजन् , राजा देवतास्वरूपस्तस्याग्रेऽसत्यं कदाचिदपि न वक्तव्यं । तथा चोक्तम्___“ सर्वदेवमयो राजा वदन्ति विग्धा जनाः ।
तत्सर्वदेववत् पश्येत् न व्यली न जातुचित् ॥ किन्तु कारणमस्ति । अत एवास्योपरि कोपं मा कुरु । एतेन यदुक्तं तत् सर्व सत्यमेव । राज्ञोक्त–महो, सत्पुरुषोयं, अपकारिण्यपि पुरुषे शुभं चिन्तयति । धिक्तं गुणकारिण्यप्यशुभ चिन्त
For Private And Personal Use Only

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264