Book Title: Samyaktva Kaumudi
Author(s): Tulsiram Kavyatirth, Udaylal Kasliwal
Publisher: Hindi Jain Sahityik Prasarak Karayalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रथमकथा ।
Acharya Shri Kailassagarsuri Gyanmandir
४१
ततस्तेन देवेन पञ्चाश्चर्येण जिनदत्तश्रेष्ठी प्रपूजितः प्रशंसितश्च । अहं चौरोपि तव प्रभावेन देवो जातः । निष्कारणेन परोपकारित्वं एतत्सर्व प्रत्यक्षेण दृष्ट्वा वैराग्यसम्पन्नो भूत्वा भणति च राजाअहो, विचित्रं धर्मस्य माहात्म्यं, देवा अपि धर्मस्य माहात्म्यं कुर्वन्ति ।
तथा चोक्तम्
1
I
" सर्पो हारलता भवत्यसिलता सत्पुष्पदामायते सम्पद्येत रसायनं विषमपि प्रीतिं विधत्ते रिपुः । देवा यान्ति वशं प्रसन्नमनसः किं वा बहु महे धर्मो यस्य नभोपि तस्य सततं रत्नैः परैर्वर्षति ॥" ततो राज्ञा पुत्र स्वपदे संस्थाप्य दीक्षा गृहीता । तथैव मंत्रिणा श्रेष्ठिनाऽन्यैश्च बहुभिर्दीक्षा गृहीता जिनचन्द्रमुनीश्वरसमीपे । केचन श्रावकाः केचन भद्रपरिणामिनश्च संजाताः । देवोपि दर्शनं गृहीत्वा स्वर्गं गतः । ततोर्हद्दासेनेोक्तं - भो भार्याः एतत्सर्वं मया प्रत्यक्षेण दृष्टं । अत एवं सम्यग्दृष्टिजतोहं । भार्याभिर्भणितं - भो स्वामिन्, त्वया दृष्टं श्रुतमनुभूतं च तत्सर्वं वयं सर्वा अपि श्रद्दधाम, इच्छामो, रोचामहे । ततो लव्या कुन्दलतया भणित - मेतत्सर्वं व्यलीकमत एवाहं न श्रद्दधामि, नेच्छामि, न रोचे । एवं कुन्दलताया वचनं श्रुत्वा राजा मंत्री चौरश्च कुपितः । राज्ञोक्तमेतन्मया प्रत्यक्षेण दृष्टं । मत्पिता मम राज्यं दत्वा तपस्वी जातः । सर्वेपि जना जानन्ति । कथमियं पापिष्ठा श्रेष्ठिवचनं व्यलीकं निरूपयति । प्रभातसमयेऽस्या निग्रहं करिष्यामि । पुनरपि चौरेणोक्तं- नीचस्वभावोयं यत् प्रसादाज्जीवति तस्यैव विरूपकं करोति । इति प्रथमकथा |
1
For Private And Personal Use Only

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264