SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्रथमकथा । Acharya Shri Kailassagarsuri Gyanmandir ४१ ततस्तेन देवेन पञ्चाश्चर्येण जिनदत्तश्रेष्ठी प्रपूजितः प्रशंसितश्च । अहं चौरोपि तव प्रभावेन देवो जातः । निष्कारणेन परोपकारित्वं एतत्सर्व प्रत्यक्षेण दृष्ट्वा वैराग्यसम्पन्नो भूत्वा भणति च राजाअहो, विचित्रं धर्मस्य माहात्म्यं, देवा अपि धर्मस्य माहात्म्यं कुर्वन्ति । तथा चोक्तम् 1 I " सर्पो हारलता भवत्यसिलता सत्पुष्पदामायते सम्पद्येत रसायनं विषमपि प्रीतिं विधत्ते रिपुः । देवा यान्ति वशं प्रसन्नमनसः किं वा बहु महे धर्मो यस्य नभोपि तस्य सततं रत्नैः परैर्वर्षति ॥" ततो राज्ञा पुत्र स्वपदे संस्थाप्य दीक्षा गृहीता । तथैव मंत्रिणा श्रेष्ठिनाऽन्यैश्च बहुभिर्दीक्षा गृहीता जिनचन्द्रमुनीश्वरसमीपे । केचन श्रावकाः केचन भद्रपरिणामिनश्च संजाताः । देवोपि दर्शनं गृहीत्वा स्वर्गं गतः । ततोर्हद्दासेनेोक्तं - भो भार्याः एतत्सर्वं मया प्रत्यक्षेण दृष्टं । अत एवं सम्यग्दृष्टिजतोहं । भार्याभिर्भणितं - भो स्वामिन्, त्वया दृष्टं श्रुतमनुभूतं च तत्सर्वं वयं सर्वा अपि श्रद्दधाम, इच्छामो, रोचामहे । ततो लव्या कुन्दलतया भणित - मेतत्सर्वं व्यलीकमत एवाहं न श्रद्दधामि, नेच्छामि, न रोचे । एवं कुन्दलताया वचनं श्रुत्वा राजा मंत्री चौरश्च कुपितः । राज्ञोक्तमेतन्मया प्रत्यक्षेण दृष्टं । मत्पिता मम राज्यं दत्वा तपस्वी जातः । सर्वेपि जना जानन्ति । कथमियं पापिष्ठा श्रेष्ठिवचनं व्यलीकं निरूपयति । प्रभातसमयेऽस्या निग्रहं करिष्यामि । पुनरपि चौरेणोक्तं- नीचस्वभावोयं यत् प्रसादाज्जीवति तस्यैव विरूपकं करोति । इति प्रथमकथा | 1 For Private And Personal Use Only
SR No.020628
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorTulsiram Kavyatirth, Udaylal Kasliwal
PublisherHindi Jain Sahityik Prasarak Karayalay
Publication Year
Total Pages264
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy