________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२
सम्यक्त्व-कौमुद्यां
२-सम्यक्त्वमाप्तमित्रश्रियः कथा । स्वसम्यक्त्वकारणकथां निपरूयित्वा मित्रश्रियं प्रति श्रेष्ठी भणतिभो मित्रश्रि, स्वसम्यक्त्वकथां निरूपय ।
सा कथयति
मगधदेशे राजगृहनगरे राजा संग्रामशूरः । तस्य राज्ञी कनकमाला। तत्रैव श्रेष्ठी वृषभदासो महासम्यग्दृष्टिः परमधार्मिकः सर्वलक्षणसम्पूर्णश्च । तथा चोक्तम्
" पात्रे त्यागी गुणे रागी भोगे परिजनैः सह ।
शास्त्रे बोद्धा रणे योद्धा पुरुषः पञ्चलक्षणः ॥" तस्य श्रेष्ठिनो भार्या जिनदत्ता । सापि परमधार्मिका सम्यक्त्वादिगुणोपेता, सर्वलक्षणसम्पूर्णा च । तथा चोक्तम्
"अनुकूला सदा तुष्टा दक्षा साध्वी विचक्षणा ।
एभिरेव गुणैर्युक्ता श्रीरेव स्त्री न संशयः॥" एवं गुणविशिष्टा जिनदत्ता, परन्तु वन्ध्या । केनाप्युपायेन तस्याः पुत्रो न भवति । एकास्मन् दिनेऽवसरं प्राप्य करौ कुङ्मलीकृत्य निजस्वामिनं प्रति भणितं-भो स्वामिन्, पुत्रं विना कुलं न शोभते । वंशच्छेदोपि भविष्यति । अत एव संतानवृद्ध्यर्थं पुनरपि द्वितीयो विवाहः कर्तव्यः ।
तथा चोक्तम्
For Private And Personal Use Only