________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४०
Acharya Shri Kailassagarsuri Gyanmandir
सम्यक्त्व-कौमुद्यां
किन्तु कारणमस्ति । एष श्रेष्ठी मम मुख्यगुरुस्तेन कारणेन प्रथमं वन्दनां करोमि । राज्ञा देवः पृष्टः - केन सम्बन्धेन तव मुख्यगुरुर्जातः श्रेष्ठी ! ततस्तेन देवेन पूर्व समस्तं वृत्तान्तं निरूपितं राज्ञोये । तत्रकेनचिद्भणितमहो, सत्पुरुषोयं । सन्तः कृतमुपकारं न विस्मरन्ति ।
T ।
तथा चोक्तम्—
" प्रथमवयसि पीतं तोयमल्पं स्मरन्तः शिरसि निहितभारा नालिकेरा नराणाम् । उदकममृततुल्यं दद्युराजीवितान्तं
न हि कृतमुपकारं साधवो विस्मरन्ति ॥
राज्ञोक्तं - केन प्रेर्यमाणः सन्नेष श्रेष्ठी कृतवानेवम् ? देवेनोक्तं-भो राजन्, महापुरुषस्वभावोयम् । तथा चोक्तम्-
" कस्यादेशात्प्रहरति तमः सप्तसप्तिः प्रजानां छायाहेतोः पार्थ विटपिनाम अलिः केन बद्धाः । अभ्यर्थ्यन्ते जललवमुचः केन वा वृष्टितो -
जात्या चैते परहितविधौ साधवो बद्धकक्षाः || ” राज्ञोक्तं - धर्माणां मध्ये महान्धर्मोयं महता सुकृतेन लभ्यते । श्रेष्ठिनोक्तं-भो राजन्, त्वयोक्तं सत्यमेव । अल्पपुण्यैर्नलभ्यतेऽयं धर्मः । तथा चोक्तम्
“ “जैनो धर्मः प्रकटविभवः संगतिः साधुलाके विद्वगोष्ठी वचनपटुता कौशलं सर्वशास्त्रे ।
साध्वी रामा चरणकमलोपासनं सद्गुरूणां शुद्धं शीलं मतिरमलिना प्राप्यते नाल्पपुण्यैः ॥
"1
For Private And Personal Use Only