SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमकथा । mmmmmmmmmirmirmiraram.ornmmmm.ni.vwwwwwwwwwwww. .. به میه ای از مهم ی تی یه مهمی که ب wwwwand निवासिश्रेष्ठिनिनदत्तस्य शरणं गच्छसि चेद्रक्षयामि, नान्यथा । एतद्वचनं श्रुत्वा श्रेष्ठिशरणं प्रविष्टो राजा, भणितञ्च तेन-भो श्रेष्ठिन्, रक्ष रक्ष तव शरणं प्रविष्टोस्मि । रक्षिते सति पुनः प्रतिष्ठा कृता भवतीति। तथा चोक्तम्---- " नष्टं कुलं कूप-तडाग-वापी .. भृष्टं च राज्यं शरणागतं च । गां ब्राह्मणं जीर्णसुरालयं च __य उद्धरेत्पुण्यचतुर्गुणं स्यात् । " एवं श्रुत्वा श्रेष्ठिना मनसि चिन्तितम्-अयं राक्षसः कोपि विक्रियावान् , अन्यस्यैतन्माहात्म्यं न दृश्यते । ततो भणितं-हे देव, प्रपलायमानस्य पृष्ठतो न लग्यते ।। तथोक्तम् " भीरुः पलायमानोपि नान्वेष्टव्यो बलीयसा । कदाचिच्छूरतामेति. मरणे कृतनिश्चयः ॥" एतच्छ्रेष्ठिवचनं श्रुत्वा राक्षसरूपं परित्यज्य देवो जातः । श्रेष्ठिनं त्रिःप्रदक्षिणीकृत्य नमस्कृतः ! पश्चाद्देवं गुरुं नमस्कृत्योपविष्टो देवः । राज्ञा भणितं-हे देव, स्वर्गे विवेको नास्ति, यतो देवं गुरुं च त्यक्त्वा प्रथमं गृहस्थवन्दना कृता त्वया । अपक्रमोऽयम्-- तथा चोक्तम् "अपक्रम भवेद्यत्र प्रसिद्धक्रमलंघनम् । __ यथा भुकत्वा कृतस्नानो गुरून्देवांश्च वन्दते ॥" तेनोक्तं हे राजन् , समस्तमपि विवेकं जानामि । पर्व देवस्य नतिः, पश्चाद्गुरोर्नतिस्तदनन्तरं श्रावकस्येच्छाकारो यथायोग्यं जानामि, For Private And Personal Use Only
SR No.020628
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorTulsiram Kavyatirth, Udaylal Kasliwal
PublisherHindi Jain Sahityik Prasarak Karayalay
Publication Year
Total Pages264
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy