Book Title: Samyaktva Kaumudi
Author(s): Tulsiram Kavyatirth, Udaylal Kasliwal
Publisher: Hindi Jain Sahityik Prasarak Karayalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२
सम्यक्त्व-कौमुद्यां
वन्दनादिक्रियां पठित्वा व्याघुट्य तत्रैव नगर आगतः । गुणपालकारितचैत्यालये स्थितः । तस्यागमनं श्रुत्वा गुणपालश्चैत्यालय आगतः । गुणपाल इच्छाकारं कृत्वोपविष्टः । ब्रह्मचारिणा “ दर्शनविशुद्धि रस्तु" इत्याशीर्वादो दत्तः । श्रेष्ठिना भणितं-भो प्रभो, कस्यान्तेवासी, कस्मात्समागतोसि ? वर्णिना भणित,-मष्टोपवासिनो जिनचन्द्रभद्वारकस्याहमन्तेवासी पूर्वदेशं परिभ्रम्य तीर्थंकरदेवपञ्चकल्याणकस्थानानि सम्प्रति कुन्थ्वरदेवानां वन्दनार्थमागतोहं । श्रेष्ठिना भणितं-धन्योयमस्य दिवसानि धर्मध्यानेन गच्छन्ति । पुनरपि गुणपालेन वर्णी पृष्टः-भो प्रभो, क्व जन्मभूमिः? अत्र नगरे ब्राह्मणः सोमशर्मा । भार्या सोमिल्ला । तयोः पुत्रो रुद्रदत्तोहें पितृमातृमरणावस्थां दृष्ट्वा शोकेन तीर्थयात्रां गतः । वाराणस्यां निनचन्द्रभट्टारकेण संबोध्य ब्रह्मचारी कृतोहं । किं गात्रेण ? किं देशेन ? संसारे किं कस्य नित्यमस्ति । अत एव मम धर्म एव शरणं येन सर्वसिद्धिर्भवति । - तथा चोक्तम्
"धर्मोयं धनवल्लभेषु धनदः कामार्थिनां कामदः
सौभाग्यार्थिषु तत्पदः किमपरं पुत्रार्थिनां पुत्रकः । राज्यार्थिष्वपि राज्यदः किमथवा नाना विकल्पैनणां
तत्किं यन्न ददाति किश्च तनुते स्वर्गापवर्गावपि ॥" बहुधा प्रशंस्य पुनरपि श्रेष्ठिना भीणतं-भो ब्रह्मचारिन् , त्वया सावधिकं निरवाधिकं वा ब्रह्मचर्य गृहीतम् ? तेनोक्तं-सावधिक, परन्तु मम स्व्युपरि वांछा नास्तिं यतः स्त्रियो हि विषमं विषम् ।
तथा चोक्तम्
For Private And Personal Use Only

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264