SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५२ सम्यक्त्व-कौमुद्यां वन्दनादिक्रियां पठित्वा व्याघुट्य तत्रैव नगर आगतः । गुणपालकारितचैत्यालये स्थितः । तस्यागमनं श्रुत्वा गुणपालश्चैत्यालय आगतः । गुणपाल इच्छाकारं कृत्वोपविष्टः । ब्रह्मचारिणा “ दर्शनविशुद्धि रस्तु" इत्याशीर्वादो दत्तः । श्रेष्ठिना भणितं-भो प्रभो, कस्यान्तेवासी, कस्मात्समागतोसि ? वर्णिना भणित,-मष्टोपवासिनो जिनचन्द्रभद्वारकस्याहमन्तेवासी पूर्वदेशं परिभ्रम्य तीर्थंकरदेवपञ्चकल्याणकस्थानानि सम्प्रति कुन्थ्वरदेवानां वन्दनार्थमागतोहं । श्रेष्ठिना भणितं-धन्योयमस्य दिवसानि धर्मध्यानेन गच्छन्ति । पुनरपि गुणपालेन वर्णी पृष्टः-भो प्रभो, क्व जन्मभूमिः? अत्र नगरे ब्राह्मणः सोमशर्मा । भार्या सोमिल्ला । तयोः पुत्रो रुद्रदत्तोहें पितृमातृमरणावस्थां दृष्ट्वा शोकेन तीर्थयात्रां गतः । वाराणस्यां निनचन्द्रभट्टारकेण संबोध्य ब्रह्मचारी कृतोहं । किं गात्रेण ? किं देशेन ? संसारे किं कस्य नित्यमस्ति । अत एव मम धर्म एव शरणं येन सर्वसिद्धिर्भवति । - तथा चोक्तम् "धर्मोयं धनवल्लभेषु धनदः कामार्थिनां कामदः सौभाग्यार्थिषु तत्पदः किमपरं पुत्रार्थिनां पुत्रकः । राज्यार्थिष्वपि राज्यदः किमथवा नाना विकल्पैनणां तत्किं यन्न ददाति किश्च तनुते स्वर्गापवर्गावपि ॥" बहुधा प्रशंस्य पुनरपि श्रेष्ठिना भीणतं-भो ब्रह्मचारिन् , त्वया सावधिकं निरवाधिकं वा ब्रह्मचर्य गृहीतम् ? तेनोक्तं-सावधिक, परन्तु मम स्व्युपरि वांछा नास्तिं यतः स्त्रियो हि विषमं विषम् । तथा चोक्तम् For Private And Personal Use Only
SR No.020628
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorTulsiram Kavyatirth, Udaylal Kasliwal
PublisherHindi Jain Sahityik Prasarak Karayalay
Publication Year
Total Pages264
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy