SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयकथा। " कंठस्थः कालकूटोपि शंभो किमपि नाकरोत् । सोपि प्रबाध्यते स्त्रीभिः स्त्रियो हि विषमं विषम् ॥” श्रेष्ठिनाऽभाणि-भो, मम गृहे ब्राह्मणपुत्री तिष्ठति तां त्वं विवाहय । श्रावकं ज्ञात्वा तव ददामि । श्रेष्ठिवचनं श्रुत्वा तेनोक्तं-विवाहेन संसारपातो भवति । अत एव विवाहेन प्रयोजनं नास्ति । अन्यच स्त्रीसंगमेन मयाऽभ्यस्तं शास्त्रमपि गच्छति । तथा चोक्तम्----- " श्याञ्जनतंत्राणि मंत्रयन्त्राण्यनेकधा । व्यर्थीभवन्ति सर्वाणि वनिताराधनं प्रति ॥" ततः श्रेष्ठिना महताऽग्रहेण विवाहितः । विवाहानन्तरं करकंकणसहितो रुद्रदत्तः कितवस्थानं गतः । कितवानामग्रे भणितं-मया या प्रतिज्ञा कृता सा परिपूर्णा जाता । इति श्रुत्वा तैः प्रशंसितो रुद्रदत्तः । ततस्तस्य पूर्वभार्या वसुमित्रा-कुट्टिन्याः पुत्री कामलता वेश्या, तस्या गृहे पुनरपि संस्थितः । रुद्रदत्तस्य वृत्तान्तं श्रुत्वा दृष्ट्वा च विलक्षीभूत्वा सोमा भणति-अहो, मम कर्मणां स्वभावोयं यदुपार्जितं तत् कथं गच्छति । श्रेष्ठिना भणितं-भो पुत्रि, विरोधं मा कुरु कलियुगस्वभावोयं । तथा चोक्तम् "शशिनि खलु कलङ्कः कंटकाः पद्मनाले उदधिजलमपेयं पंडिते निर्धनत्यम् । दयितजनवियोगो दुर्भगत्वं सुरूपे धनपतिकृपणत्वं रत्नदोषे कृतान्तं ॥" For Private And Personal Use Only
SR No.020628
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorTulsiram Kavyatirth, Udaylal Kasliwal
PublisherHindi Jain Sahityik Prasarak Karayalay
Publication Year
Total Pages264
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy