________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयकथा ।
सुस्वादुतोयं प्रवहन्ति नद्यः
समुद्रमासाद्य भवन्त्यपेयाः॥" महानुभावसंसर्गः कस्य नोन्नतिकारणम् ।
गंगाप्रविष्ट रथ्याम्बु विदशैरपि वन्द्यते । एकदा सोमदत्तेन निजमरणं ज्ञात्वा गुणपालमाहूय भणितं-तव साहाय्येन किंचिदपि दुःखं न ज्ञातं मया । अपरञ्च मम पुत्री • सोमा श्रावकब्राह्मणं विहायान्यस्य न दातव्या । एवं भणित्वा निजपुत्री गुणपालस्य हस्ते दत्वा स्वयं संयमत्वतेन मरणं कृत्वा स्वर्ग गतः । तथा चोक्तम्
"विद्या तपो धनं शौर्य कुलीनत्वमरोगिता।
राज्यं स्वर्गश्च मोक्षश्च सर्व धर्मादवाप्यते ॥" गुणपालः सोमां निजपुत्रीवत्पालयति । अथ तस्मिन्नेव नगरे ब्राह्मणो धूर्ती रुद्रदत्तनामा वसति । स प्रतिदिनं द्यूतक्रीडां करोति । एकस्मिन् दिवसे सोमा मार्गे गच्छन्ती द्यूतकारैदृष्टा । पृष्टाश्च ते रुद्रदत्तेन कस्येयं पुत्री ? तैर्भणितं-सोमदत्तस्य पुत्री । पित्रा मरणसमये गुणपालहस्ते दत्ता । स स्वपुत्रीवदिमां पालयति कुमारिकां । तेषां वचनं श्रुत्वा भणति-रुद्रदत्तोऽहं विवाहयामीमां । तैणितं-रे, अज्ञानेन किं ब्रवीषि । दीक्षितादिब्राह्मणैर्विवाहयितुं याचिता, परन्तु श्रेष्ठी जैनं विहायान्यस्य न प्रयच्छति । त्वं सर्वभ्रष्टः । कथं त्वया प्राप्यते ? तेषां वचनं श्रुत्वा सोभिमानी सन् वदति-अहो, मम बुद्धिकौतुकं पश्यत ! अवश्यं विवाहयामीति प्रतिज्ञां कृत्वा देशान्तरं गतः कस्यचिन्मुनेः समीपे मायारूपेण ब्रह्मचारी जातः । देव
For Private And Personal Use Only