________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सम्यक्त्व-कौमुद्यां
३-सम्यक्त्वप्राप्तचन्दनश्रियः कथा। ततः श्रेष्ठिना चन्दनश्रीः पृष्टा-भो भार्ये, स्वसम्यक्त्वकारणं कथय ? सा कथयति-कुरुजांगलदेशे हस्तिनागपुरे राजा भूभागः । राज्ञी भोगावती । राजश्रेष्ठी गुणपालः परमधार्मिकोधिकसम्यग्दृष्टिः । भार्या गुणवती । तत्रैव नगरे ब्राह्मणसोमदत्तो महादरिद्रः । भार्या सोमिल्लातीव साध्वी । तयोः पुत्री सोमा । एकस्मिन् समये ज्वराक्रान्ता सोमिल्ला मृता । तस्याः शोकेन सोमदत्तो महादुःखी जातः । केनचिद्यतिना दृष्टः भणितं च-रे पुत्र, किमर्थं दुःखं करोषि । तेन दुःखकारणं कथितं । यतिनाऽभाणि-रे पुत्र, जातस्य मरणं ध्रुवं महति प्रयत्नेप्ययं पापीयान् कालो जीवं कवलयत्येव । पुनरपि यतिनोक्तं -हे पुत्र, तवेह लोके परलोके च धर्म एव हितकारी नान्यः । इति यतिवचनं श्रुत्वा, उपशमनं गत्वा श्रावको जातः । यथाशक्ति दानमपि करोति । तथा चोक्तम्-----
"देयं स्तोकादपि स्तोकं न व्यपेक्षा महोदये ।
इच्छानुकारिणी शक्तिः कदा कस्य भविष्यति ॥" एवं कालं गमयति । एकदानेन गुणपालेन श्रावको दरिद्रोयमिति ज्ञात्वा निजगृहे नीत्वा पूजितः । सर्वप्रकारेण तस्य निर्वाहं करोति । भणितं चाहो, महत्सर्गेण गुणी पूज्यश्च को न भवति । तथा चोक्तम्
" गुणा गुणशेषु गुणा भवन्ति ते निर्गुणं प्राप्य भवन्ति दोषाः ।
For Private And Personal Use Only