________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयकथा ।
सरिपार्श्वे दीक्षा गृहीता । वृषभदासश्रेष्ठिनाऽन्यैर्बहुभिश्च दीक्षा गृहीता। मुनिनोक्तं-भो पुत्राः, चारु कृतम् । सर्वेषां पदार्थानां भयमस्ति, वैराग्यमेवाभयं वस्तु गृहीतं भवद्भिः । तथा चोक्तम्--- "भोगे रोगभयं सुखे क्षयभयं वित्ते नृपालाद्भयं
दासे स्वामिभयं जये रिपुभयं वंशे कुयोषिद्भयं । माने म्लानभयं गुणे खलभयं काये कृतान्ताद्भयं
सर्व नाम भयं भवेदिदमहो वैराग्यमेवाभयम् ॥" ततो मित्रश्रिया भणितं-भो स्वामिन् , मयैतत् सर्व प्रत्यक्षेण दृष्टमतो दृढतरं सम्यक्त्वं जातं मम । अर्हहासेनोक्त-भो भार्ये, यत्
क्या दृष्टं तदहं श्रद्दधामि, इच्छामि, रोचे । अन्याभिश्च तथैव भणितम् । ततः कुन्दलतया भणितं सर्वमेतदसत्यं । एतत्सर्व राज्ञा मंत्रिणा चौरेण श्रुत्वा स्वमनसि भणितं-कथमियं पापिष्ठा सत्यस्यासत्यं कथयति । प्रातरियं निर्घाटनीया, गर्दभोपरि चटाप्य । पुनरपि चौरेण खमनासि चिन्तित-महो,-" गुणं विहाय दोषं गृह्णाति दुर्जनः " लोकोक्तिरियं सत्या । तथा चोक्तम्---- "दोषमेव समाधत्ते न गुणं विगुणो जनः । जलौका स्तनसंपृक्तं रक्तं पिबति नामृतम् ॥"
इति द्वितीयकथा।
For Private And Personal Use Only