Book Title: Samyaktva Kaumudi
Author(s): Tulsiram Kavyatirth, Udaylal Kasliwal
Publisher: Hindi Jain Sahityik Prasarak Karayalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयकथा।
४५
हे पुत्रि, किं बहुनोक्तेन येनोपायेनेयं पापिष्ठा जिनदत्ता म्रियते तमुपायं करोमि । एवं पुत्रीमनसि संतोषमुत्पाद्य पतिगृहे प्रस्थापिता । सेयं मनसि वैरं कृत्वा स्थिता । एकदानेकवधूसहितोऽस्थ्याभरणभूषितविग्रहः त्रिशूलडमरुनपुराद्युपेतो महारौद्रमूर्तिः कापालिकनामा योगी भिक्षार्थ बन्धुश्रीगृहमागतः । एवंविधं योगिनं दृष्ट्वा मनसि चिन्तितमहो, मयाऽनेककापालिका दृष्टा, अस्य माहात्म्यं न कुत्रापि दृश्यते । अस्य पार्श्वे मम कार्यसिद्धिर्भविष्यतीति निश्चित्यानेकरसवतीसहिता भिक्षा दत्ता तया । तथा चोक्तम्--
“ कार्यार्थं भजते लोके निश्चितं कस्यचित्प्रियः ।
वत्सः क्षीरक्षयं दृष्ट्वा स्वयं त्यजति मातरम् ॥" एवमनुदिनं भिक्षां ददाति । तस्या भक्तिं निरीक्ष्य योगिना मनसि चिन्तितमहो, मम मातेयमस्याः किमप्युपकारं करिष्यामि । तथा चोक्तम्
" जनकचोपनीता च यस्तु विद्यां प्रयच्छति ।
अन्नदाता भयत्राता पञ्चैते पितरः स्मृताः ॥” ततो योगिना भणितं-हे मात,-मम महाविद्यासिद्धिरस्ति । यत्प्रयोजनं ते तत्कथय । ततो रुदन्त्या बन्धुश्रिया सर्वमपि वृतान्तं कथितं, किं बहुनेयं पापिष्ठा जिनदत्ता त्वया मारयितव्या । सव भगिन्या येन गृहवासो भवति तथा कर्तव्यं । योगिना भणितंभो मात, स्त्वं स्थिरीभव। मम जीवमारणे शंका नास्ति । कृष्णच्चतुर्दशी
For Private And Personal Use Only

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264