SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयकथा। ४५ हे पुत्रि, किं बहुनोक्तेन येनोपायेनेयं पापिष्ठा जिनदत्ता म्रियते तमुपायं करोमि । एवं पुत्रीमनसि संतोषमुत्पाद्य पतिगृहे प्रस्थापिता । सेयं मनसि वैरं कृत्वा स्थिता । एकदानेकवधूसहितोऽस्थ्याभरणभूषितविग्रहः त्रिशूलडमरुनपुराद्युपेतो महारौद्रमूर्तिः कापालिकनामा योगी भिक्षार्थ बन्धुश्रीगृहमागतः । एवंविधं योगिनं दृष्ट्वा मनसि चिन्तितमहो, मयाऽनेककापालिका दृष्टा, अस्य माहात्म्यं न कुत्रापि दृश्यते । अस्य पार्श्वे मम कार्यसिद्धिर्भविष्यतीति निश्चित्यानेकरसवतीसहिता भिक्षा दत्ता तया । तथा चोक्तम्-- “ कार्यार्थं भजते लोके निश्चितं कस्यचित्प्रियः । वत्सः क्षीरक्षयं दृष्ट्वा स्वयं त्यजति मातरम् ॥" एवमनुदिनं भिक्षां ददाति । तस्या भक्तिं निरीक्ष्य योगिना मनसि चिन्तितमहो, मम मातेयमस्याः किमप्युपकारं करिष्यामि । तथा चोक्तम् " जनकचोपनीता च यस्तु विद्यां प्रयच्छति । अन्नदाता भयत्राता पञ्चैते पितरः स्मृताः ॥” ततो योगिना भणितं-हे मात,-मम महाविद्यासिद्धिरस्ति । यत्प्रयोजनं ते तत्कथय । ततो रुदन्त्या बन्धुश्रिया सर्वमपि वृतान्तं कथितं, किं बहुनेयं पापिष्ठा जिनदत्ता त्वया मारयितव्या । सव भगिन्या येन गृहवासो भवति तथा कर्तव्यं । योगिना भणितंभो मात, स्त्वं स्थिरीभव। मम जीवमारणे शंका नास्ति । कृष्णच्चतुर्दशी For Private And Personal Use Only
SR No.020628
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorTulsiram Kavyatirth, Udaylal Kasliwal
PublisherHindi Jain Sahityik Prasarak Karayalay
Publication Year
Total Pages264
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy