________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सम्यक्त्व-कौमुद्यां
कश्रीगृहे नागच्छामि । जिनगृह एवाहं तिष्ठामीति शपथं कृत्वा याचिता । ताभ्यां दत्ता च । शुभमुहूर्ते विवाहो जातः । 'जिनदत्ता जिनगृहे स्थिता । दम्पती स्वगृहे सुखेन स्थितौ । एकदा कनकश्रीनिजमातृगृहं गता । मात्रा पृष्टा-भो पुत्रि, निजभा सह सुखानुभवं क्रियते न वा ? पुत्र्योक्तं हे मात,-मम भर्ता मया सह वचनालापमपि न करोति, कामभोगेषु का वार्ता । अन्यच्च मम सपत्न्युपरि विवाहयितुं दत्वा किं पृच्छसि ? मुंडे मुंडनं कृत्वा पश्चान्नक्षत्रं पृच्छसि । जिनदत्तया मम भर्ता सर्वप्रकारेण गृहीतः । तौ दम्पती जिनालये सर्वदा तिष्ठतः । तत्रैव सुखानुभवनं कुरुतः । मध्याह्नकाले संध्यासमये च भोजनं कर्तुमागच्छतः । एकाकिनी क्षीणगात्राहं रात्रौ निद्रां करोमि । एतत् सर्वमसत्यं मायया स्वमातुरग्रे कनकश्रिया प्रतिपादितम् । ततो बन्धुश्रिया भणितं-रतिरूपामिमां मत्पुत्री परित्यज्य जिनालये जराजर्जरितां विरूपां वृद्धा सेवति । अत एव काम्युचितानुचितं न जानाति । तथा चोक्तम्
"कवयः किं न कुर्वन्ति किं न पश्यन्ति योगिनः ।
विरुद्धाः कि न जल्पंति किं न कुर्वन्ति योषितः ॥" तस्य लज्जापि नास्ति । अहो मकरध्वजस्य माहात्म्यं गुरुतरं पंडितमपि विडम्बयति । तथा चोक्तम्
" विकलयति कलाकुशलं हसति शुचिं पंडितं विडम्बयति । अधरयति धीरपुरुषं क्षणेन मकरध्वजो देवः ।।"
For Private And Personal Use Only