Book Title: Samyaktva Kaumudi
Author(s): Tulsiram Kavyatirth, Udaylal Kasliwal
Publisher: Hindi Jain Sahityik Prasarak Karayalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
__ सम्यक्त्व-कौमुद्या
सा मया श्रुता । अत एव महती वेला लग्ना । राज्ञोक्तं-सा कथा ममामे निरूपणीया । तेनोक्त--तथास्तु । तद्यथा-एकस्मिन्नुद्यानवने तडागतटे काचिद् हरिणी निवसति स्म ।सा स्वबालकैः सह वनस्थलीषु तृणादिभक्षणं कृत्वा तडागेषु पानीयं पीत्वा सुखेन कालं गमयति । तदासन्ननगरस्यारिमर्दनस्य नृपस्य बहवः पुत्राः सन्ति । केनापि व्याधेनैकं मृगशावकं जीर्णवनतो गृहीत्वा एकस्मै कुमाराय समर्पितः । अन्ये कुमारास्तं दृष्ट्वा पश्चात्तैरेकत्र संभूय राज्ञोग्रे कथितम्-अस्माकं मृगशावान् समर्पय । ततो राज्ञा व्याधानाकार्य पृष्ट-भो भो व्याधाः, कस्मिन् वने मृगशावाः प्राप्यन्ते । केनचित्कथितं हे देव, जीर्णोद्याने प्राप्यन्ते । तच्छ्रुत्वा राजा स्वयमेव व्याधवेषं विधाय तत्र गतः । तद्वनं विषमं दृष्ट्वा मृगपोतग्रहणार्थ व्याधेभ्यः कथित,-मेकत्र ज्वलन,-मेकत्र पाशा,-नेकत्र गर्तखननं कुर्वन्तु । इति दृष्ट्वैकन पंडितेनोक्तम्
" सव्वजलं विससहिदं सवारणं च कूटसंछण्णं ।
राया य सयं वाहो तत्थ सिदाणं कुदो वासो।" तथा च
" रज्वा दिशः प्रवितताः सलिलं विषेण
पांशर्मही हुतभुजाकुलितं वनान्तम् । व्याधाः पदान्यनुसरन्ति गृहीतचापाः : ___कं देशमाश्रयतु डिंभवती कुरंगी ॥" एवं सूचिताभिप्रायं राजा न जानाति । इत्याख्यानं निरूपयित्वा निजमंदिरं गतो यमदंडः।
इति चतुर्थदिनकथा।
For Private And Personal Use Only

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264