Book Title: Pravachan Pariksha Part 02
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha
View full book text
________________
श्रीप्रवचन परीक्षा ११ विश्रामे ॥२६०॥
DHOYONGHONGKONG HONGKONGHONGH
जाई कणयारो लिंगहरो कहवि कम्मजोएणं । संजाओ धुत्तमई पावमयपरूवणारसिओ ॥३॥
जात्यास कनककारः - सुवर्णकारः, कथमपि कर्मयोगेन लिंगधरः संजातः कीदृशः १ - धूर्त्तमतिः - परवंचनाकुशलः पापमतप्ररूपणारसिकः, यथा एते गच्छास्तथा मन्नाम्नाऽपि कोऽपि गच्छो भवत्वित्यभिप्रायकलित इति गाथार्थः || ३|| अथ तेन किं कृतमित्याह - बहु चिंतिऊण कुमयं परूवियं उभयपाससंकासं । पडिमाऽणुकूल पडिवक्खपक्खफासीवि दुक्खनिही ||४|| बहु-अतिशयेन चिन्तयित्वा कुमतं स्वनाम्ना प्ररूपितं, किंलक्षणम् १ – उभयपाशकल्पं, तत्र हेतुमाह - 'पडिमाणु'त्ति प्रतिमानुकूलप्रतिकूलपक्षस्पर्शि, अपिरेवार्थे, दुःखनिधिरेव - अनन्तसंसारपरिभ्रमणदुःखनिधानमेव, अयं भावः - पाशचन्द्रेण धूर्तधिया विचारितंअहं किंचित्तथाविधं प्ररूपयामि येन प्रतिमानुकूलास्तपाप्रभृतयः तत्प्रतिक्षा लुंपकाश्चेत्युभयेऽपि मदायत्ता भवन्तीति विचार्योभये - षामपि पाशकल्पं मतं प्ररूपितं, परं श्रीआणंदविमलसूरिश्रीविजयदानसूरिभिस्त्वरितमेव लोकानुकम्पया सारा चक्रे, तेन तच्छिष्योपाध्याय श्री विद्यासागरप्रभृतिभिस्त्वरितमेवोभयपाशश्छिन्नः, तेन न वृद्धिमगात्, बहवस्ततो मोचिता इति गाथार्थः ॥४॥ अथैवं प्ररूपणारसिकः कथमासीदित्याह —
GIONSHONGKONGHOKOK
सद्दहणधम्मरहिओ जिणवयणविगोवर्णमि नडचरिओ । निज्जुत्तिभासचुण्णीछे अउच्छे अच्छे अमई ||५||
यतः स श्रद्धानधर्मरहितः, आस्तां जैनधर्मे, शैवधर्मेऽपि तस्य श्रद्धानं नासीत्, नन्वेवं तस्य श्रद्धानं कथमवगतमिति चेदुच्यते, यतोऽन्ये कुपाक्षिकमताकर्षका नास्माकं प्रत्यक्षा अभूवन् परमयं त्वध्यक्षसिद्ध एवासीत्, स चास्मत्पूज्यैरुदीरितः - ननु भो पाशचन्द्र ! किमिति नवीनमतव्यवस्थापनोद्यतः १, न हि गणनिश्रामन्तरा धर्मो भवति, यदागमः - " धम्मं चरमाणस्स पंच निस्साठाणा
पात्रप्ररूपणा
॥२६०

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356