SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन परीक्षा ११ विश्रामे ॥२६०॥ DHOYONGHONGKONG HONGKONGHONGH जाई कणयारो लिंगहरो कहवि कम्मजोएणं । संजाओ धुत्तमई पावमयपरूवणारसिओ ॥३॥ जात्यास कनककारः - सुवर्णकारः, कथमपि कर्मयोगेन लिंगधरः संजातः कीदृशः १ - धूर्त्तमतिः - परवंचनाकुशलः पापमतप्ररूपणारसिकः, यथा एते गच्छास्तथा मन्नाम्नाऽपि कोऽपि गच्छो भवत्वित्यभिप्रायकलित इति गाथार्थः || ३|| अथ तेन किं कृतमित्याह - बहु चिंतिऊण कुमयं परूवियं उभयपाससंकासं । पडिमाऽणुकूल पडिवक्खपक्खफासीवि दुक्खनिही ||४|| बहु-अतिशयेन चिन्तयित्वा कुमतं स्वनाम्ना प्ररूपितं, किंलक्षणम् १ – उभयपाशकल्पं, तत्र हेतुमाह - 'पडिमाणु'त्ति प्रतिमानुकूलप्रतिकूलपक्षस्पर्शि, अपिरेवार्थे, दुःखनिधिरेव - अनन्तसंसारपरिभ्रमणदुःखनिधानमेव, अयं भावः - पाशचन्द्रेण धूर्तधिया विचारितंअहं किंचित्तथाविधं प्ररूपयामि येन प्रतिमानुकूलास्तपाप्रभृतयः तत्प्रतिक्षा लुंपकाश्चेत्युभयेऽपि मदायत्ता भवन्तीति विचार्योभये - षामपि पाशकल्पं मतं प्ररूपितं, परं श्रीआणंदविमलसूरिश्रीविजयदानसूरिभिस्त्वरितमेव लोकानुकम्पया सारा चक्रे, तेन तच्छिष्योपाध्याय श्री विद्यासागरप्रभृतिभिस्त्वरितमेवोभयपाशश्छिन्नः, तेन न वृद्धिमगात्, बहवस्ततो मोचिता इति गाथार्थः ॥४॥ अथैवं प्ररूपणारसिकः कथमासीदित्याह — GIONSHONGKONGHOKOK सद्दहणधम्मरहिओ जिणवयणविगोवर्णमि नडचरिओ । निज्जुत्तिभासचुण्णीछे अउच्छे अच्छे अमई ||५|| यतः स श्रद्धानधर्मरहितः, आस्तां जैनधर्मे, शैवधर्मेऽपि तस्य श्रद्धानं नासीत्, नन्वेवं तस्य श्रद्धानं कथमवगतमिति चेदुच्यते, यतोऽन्ये कुपाक्षिकमताकर्षका नास्माकं प्रत्यक्षा अभूवन् परमयं त्वध्यक्षसिद्ध एवासीत्, स चास्मत्पूज्यैरुदीरितः - ननु भो पाशचन्द्र ! किमिति नवीनमतव्यवस्थापनोद्यतः १, न हि गणनिश्रामन्तरा धर्मो भवति, यदागमः - " धम्मं चरमाणस्स पंच निस्साठाणा पात्रप्ररूपणा ॥२६०
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy