________________
श्रीप्रवचन
परीक्षा ११ विश्रामे ॥२५९॥
SINGH DIGHONGKONGHONGHOSHOHONG
B
इति श्रीमत्तपागणनभोन भोमणि श्रीहीरविजयसूरीश्वरशिष्योपाध्याय श्री धर्मसागरगणिकृते स्वोपज्ञकुपाक्षिककौशिकसहस्रकिरणे श्रीहीरविजयसूरिदत्तप्रवचनपरीक्षापरनाम्नि प्रकरणे बीजामतनिरूपणनामा दशमो विश्रामः समाप्तः ॥
अथ दशमं पाशचन्द्रमत निरूपयितुमाह
अह पास चंदकुमयं दसमं वच्छामि धुत्तधुत्तयरं । विक्कमओ बावत्तरिअहिए पन्नरससयवारिसे ॥ १ ॥ अथेति नवमबीजामतनिरूपणानन्तरं क्रमप्राप्तं दशमं पाशचन्द्रकुमतं वक्ष्ये, कीदृशं तत् कुमतम् १ - धूर्त्तधूर्त्ततरं - धूर्त्तानां मध्ये धूर्त्ततरं, अतिशयेन धूर्त्तमित्यर्थः, कालमाह- 'विकमओ'त्ति विक्रमतो द्वासप्ततिसहिते पंचदशशतवर्षे जातमितिगाथार्थः॥ १ ॥ अथ पाशचन्द्रः कुतः कीदृगासीदित्याह -
नागपुरीयतवगणे उज्झाओ पासचन्दनामेणं । नियगणसूरिविरोहा दुव्वयणो लुंपगुव्वासी ॥२॥ नागपुरीयतपागणे पाशचन्द्रनानोपाध्यायः सन् निजगणसूरिविरोधात् - निजगच्छाचार्येण सह विग्रहात् लुंपकवदुर्वचन आसीत्, यथा लुम्पकलेखकेन भणित-भो अहं जीवन् भवामि तर्हि भवदीयमिक्षोच्छेद करोमि, एवं पाशचन्द्रेणाप्युक्तमिति बोध्यमिति गाथार्थः ||२|| अथ पाशचन्द्रस्य जात्यादिखरूपमाह -
SHORT HONGKONGHONG HONGKONG O
पाशचन्द्रो
त्पतिः
॥२५९॥