Book Title: Pravachan Pariksha Part 02
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha
View full book text
________________
श्रीप्रवचनपरीक्षा ११ विश्रामे
॥२९७॥
AGHOIGH
HONGHORD S
सम्यक्त्वं च संवरतया भणितं कथं न पूजा सवरः १, तस्मात् यदि तीर्थकृतां संवरविषयक उपदेशो जिनाज्ञा तर्हि पूजाऽपि जिना - ज्ञयैव सिद्धेतिगाथार्थः || ५४ ॥ अथ द्रव्यस्तवः कीदृशः १, अन्यथा च किं स्यादिति दर्शयन्नाह -
तं नियमा जिणआणा अण्णह आणा न केवलीकिच्चं । एवं सिद्धंतोऽविअ सिद्धो आणाइ बाहिरिओ || ५५ ||
तत् - द्रव्यस्तवादिकं जिनाज्ञा, अन्यथा केवलिकृत्यं, अपि गम्यः, केवलिकृत्यमपि जिनाज्ञा न स्यात्, तस्यापि केवलसातावेदनीय कर्म्मबंधेनाश्रवत्वात्, एवमितीष्टापत्तौ सिद्धांतोऽपि आज्ञाबाह्यः सिद्धः, तस्य तु छाद्मस्थिककृत्यत्वादिति गाथार्थः ॥ ५५ ॥ | अथ पाशचन्द्रमते सिद्धान्तो नाज्ञामूलक इति स्थिते किं संपन्नमित्याह
तो आणानाणाई विआरणा भूमिविरहिआ जाया । तत्थवि अ पासचंदो रत्तो पत्तो अ पायालं ॥५६॥ 'तो' तस्मात् पाशमते आज्ञानाज्ञाविचारणा - इयमाज्ञा इयं च नेत्यादिविवेचना भूमिविरहिता - स्थानकशून्या जाता, अयं भावःआज्ञा नाज्ञा च सिद्धांतेनैव विचार्यते, सिद्धांतोऽप्याज्ञाशून्यस्तर्हि क्व तदनुसारेणाज्ञानाज्ञाविचारणा सम्यग् स्यात् १, नहि केवलाकाशे | नीलपीतादिवर्णोपेतानि देवदेव्यादिरूपाण्यालिखितुं शक्यंते, यद्यपि कुपाक्षिकमात्रस्यापि सिद्धान्ताभ्युपगमो नास्त्येव, किंचित्सूत्रमात्रस्य वचोमात्रेणाभ्युपगमेऽपि तदर्थस्य स्वमतानुसारेण विकल्पितत्वात् तथाऽपि तदभ्युपगममंगीकृत्यापि पाशचंद्रमते जैनसिद्धांतोऽपि श्री भारतरामायणादिवत् स्वमतिविकल्पितो जिनाज्ञाबहिर्भूतत्वात्, 'तत्थवि'त्ति तत्रापि तथाभूतेऽपि सिद्धान्ते पाशचन्द्रो रक्त:- जिनप्रतिमायां हरिहरादिबुद्ध्या सक्तः पातालं गतः, अनंतशो नरकादिगमनसद्भावात्, किंच- यत्रैकस्यापि कर्म्मणो बंधस्तत्र जिनाज्ञा न भवति तत्कुतो ज्ञातमित्यादिप्रश्नरचना चतुरैः स्वयमेव कार्येति गाथार्थः ||२६|| अथोक्तयुक्तिप्रकारेण श्रावकधर्मे
आज्ञानाज्ञा विचारः
॥२९७||

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356