Book Title: Pravachan Pariksha Part 02
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha
View full book text
________________
श्रीप्रवचनपरीक्षा ११ विश्रामे ॥३०२॥
OROUGGHOOOHOUSKOSHOO
| पोदयेन पुनरप्यच्छिन्नतीर्थस्याशातको महापापभाग् संपन्न इति गाथार्थः ॥६६॥ अथोपधानादिप्ररूपणेऽतिदेशमाह
पाशविश्रातत्थुवहाणपइठ्ठा परूविआ पुण्णिमीअवीसामे । वासस्सवि निक्खेवं कासी वीरो गणहराणं ॥६६॥ मोपसंहारः ____तत्रोपधानप्रतिष्ठे प्ररूपिते पौणिमीयकविश्रामेऽतस्ततो ज्ञेये, उपलक्षणात पंचमीपर्युषणापूर्णिमाचतुर्मासकाद्यपि प्ररूपितं तु पौर्णमीयकांचलीकमतविश्रामोक्तयुक्त्या तिरस्करणीयं, वासस्य निक्षेप वीर:-श्रीमहावीर एव गणधराणां-गौतमादीनां मस्तकेषु अकापीत्, एतच्च श्रीआवश्यकनियुक्तिवृत्तिचूयॉर्विशेषावश्यकवृत्तौ च स्फुटमेवेति गाथार्थः॥६६॥ अथाधिकारोपसंहारमाह| एवं कुपक्खकोसिअसहस्सकिरणंमि उदयमावण्णे । चखुप्पहावरहिओ दसमुत्तो पासचंदुत्ति ॥६७॥
एवं-प्रागुक्तप्रकारेण कुपक्षकौशिकसहस्रकिरणे उदयं प्राप्ते 'चक्र'त्ति चक्षुः-खकीयं लोचनं तस्य यः प्रभावो-महिमा | नीलादिरूपग्रहणशक्तिस्तेन रहितो-विकलो दशमः-उद्दिष्टेसु दशसु कुपाक्षिकेषु अंत्य एषः संप्रत्यपि विद्यमानः पाशचन्द्रः-पाशचन्द्रनामा 'इतीति ग्रंथसमाप्तौ कथित इति बोध्यं । अयं भावः-उदिते.हि सहस्रकिरणे यथा कौशिको निजचक्षुःप्रभावरहितो भवति, अयं जगत्स्वभावो यत्तामसकुलस्य सूर्यकिरणा अतिश्यामतया भासते, यदाह श्रीसिद्धसेनदिवाकरः-"सद्धर्मवीज-11 वपनानघकौशलस्य, यल्लोकांधव! तवापि खिलान्यभूवन् । तन्नाद्भूतं खगकुलेष्विह तामसेषु, सूर्याशवो मधुकरीचरणावदाताः॥१॥"। इति, तथा कुपक्षकौशिकसहस्रकिरणसंज्ञितेऽस्मिन् प्रकरणे कुपाक्षिकाणां पुरस्तादुद्भाविते कुपाक्षिकविशेषः पाशचन्द्रो निजचक्षुः| कुश्रद्धानरूपा कुदृष्टिस्तत्प्रभावरहितो भवति-तस्य खमतिविकल्पिताः कुयुक्तयो न स्फुरन्ति, अथवा कुदृष्टिरेव सुदृष्टिर्भवति, एवंविधः | पाशचंद्रो दशम उक्त:-कथित इति गाथार्थः ॥६७।। अथायं पाशचंद्रः कस्मिन् संवत्सरे कस्मिंश्च गुरौ विद्यमाने सति भणित इति |
॥३०॥

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356