SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ११ विश्रामे ॥३०२॥ OROUGGHOOOHOUSKOSHOO | पोदयेन पुनरप्यच्छिन्नतीर्थस्याशातको महापापभाग् संपन्न इति गाथार्थः ॥६६॥ अथोपधानादिप्ररूपणेऽतिदेशमाह पाशविश्रातत्थुवहाणपइठ्ठा परूविआ पुण्णिमीअवीसामे । वासस्सवि निक्खेवं कासी वीरो गणहराणं ॥६६॥ मोपसंहारः ____तत्रोपधानप्रतिष्ठे प्ररूपिते पौणिमीयकविश्रामेऽतस्ततो ज्ञेये, उपलक्षणात पंचमीपर्युषणापूर्णिमाचतुर्मासकाद्यपि प्ररूपितं तु पौर्णमीयकांचलीकमतविश्रामोक्तयुक्त्या तिरस्करणीयं, वासस्य निक्षेप वीर:-श्रीमहावीर एव गणधराणां-गौतमादीनां मस्तकेषु अकापीत्, एतच्च श्रीआवश्यकनियुक्तिवृत्तिचूयॉर्विशेषावश्यकवृत्तौ च स्फुटमेवेति गाथार्थः॥६६॥ अथाधिकारोपसंहारमाह| एवं कुपक्खकोसिअसहस्सकिरणंमि उदयमावण्णे । चखुप्पहावरहिओ दसमुत्तो पासचंदुत्ति ॥६७॥ एवं-प्रागुक्तप्रकारेण कुपक्षकौशिकसहस्रकिरणे उदयं प्राप्ते 'चक्र'त्ति चक्षुः-खकीयं लोचनं तस्य यः प्रभावो-महिमा | नीलादिरूपग्रहणशक्तिस्तेन रहितो-विकलो दशमः-उद्दिष्टेसु दशसु कुपाक्षिकेषु अंत्य एषः संप्रत्यपि विद्यमानः पाशचन्द्रः-पाशचन्द्रनामा 'इतीति ग्रंथसमाप्तौ कथित इति बोध्यं । अयं भावः-उदिते.हि सहस्रकिरणे यथा कौशिको निजचक्षुःप्रभावरहितो भवति, अयं जगत्स्वभावो यत्तामसकुलस्य सूर्यकिरणा अतिश्यामतया भासते, यदाह श्रीसिद्धसेनदिवाकरः-"सद्धर्मवीज-11 वपनानघकौशलस्य, यल्लोकांधव! तवापि खिलान्यभूवन् । तन्नाद्भूतं खगकुलेष्विह तामसेषु, सूर्याशवो मधुकरीचरणावदाताः॥१॥"। इति, तथा कुपक्षकौशिकसहस्रकिरणसंज्ञितेऽस्मिन् प्रकरणे कुपाक्षिकाणां पुरस्तादुद्भाविते कुपाक्षिकविशेषः पाशचन्द्रो निजचक्षुः| कुश्रद्धानरूपा कुदृष्टिस्तत्प्रभावरहितो भवति-तस्य खमतिविकल्पिताः कुयुक्तयो न स्फुरन्ति, अथवा कुदृष्टिरेव सुदृष्टिर्भवति, एवंविधः | पाशचंद्रो दशम उक्त:-कथित इति गाथार्थः ॥६७।। अथायं पाशचंद्रः कस्मिन् संवत्सरे कस्मिंश्च गुरौ विद्यमाने सति भणित इति | ॥३०॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy