SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन परीक्षा ११ विश्रामे ॥३०॥ पाशविभा| मोपसंहारः GROUGHOUGROCHOGHORGOTHO दर्शनाय गाथामाहनवहत्थकायरायंकियसममहिमंमि चित्तसिअपक्खे । गुरुदेवयपुण्णुदए सिरिहीरविजयसुगुरुवारे ।।१८।। संवत्सरस्य पक्षे त्वेवं-नवहस्तशब्दो क्रमेण नवद्विकसंख्याभिधायको कायाः-पृथिव्यादयः समयभाषया षड् , पदसंख्यावाची कायशब्दः, राजा-चंद्रः, स चैकत्वसंख्यावाची ज्योतिर्विदा प्रतीतः, एतैः शब्दैः 'अंकानां वामतो गति रिति वचनात् क्रमेण | येउँकाः ते जाता यासु तानवहस्तकायराजांकिताः, एवंविधाः समाः,समाशब्दो बहुवचनांतः,ततः ते संवत्सरास्तासां महिमा-नाम| ग्रहणादिना ख्यातिर्यसिन् , एवं विधे संवत्सरे इत्यर्थः,मधुमासस्य शुक्लपक्षे तत्रापि 'श्रीहीरविजयगुरुवारे श्रिया-शोभया हिनोति वर्द्धते सुरगुरुत्वाद्यः स श्रीहित् रवेः-सूर्यस्य जयो यस्मात् स रविजयः, सूर्यबृहस्पत्योः परस्परं मैत्रीसद्भावात् 'रवेः शुक्रशनी शत्रू,ज्ञः | समः सुहृदः परे इति, तथा 'जीवस्यार्कात् त्रयो मित्राः' इति वचनात् बृहस्पतेः सकाशात् रवेर्जयो भवत्येव, ततश्च श्रीहिच्च रविजय वेति विशेषणसमासः,एवंविधो यः सु-शोभनो गुरुः-बृहस्पतिः तन्नाम्ना वारस्तमिन् श्रीहिद्रविजयसुगुरुवारे,किलक्षणेः?-'गुरुदैवतपूर्णोदये'-गुरुदैवतः-पुष्यः पूर्णा चार्थादशमी, चैत्रशुक्लपक्षे पंचमीपंचदश्योः पूर्णातिथ्योः पुष्यनक्षत्रायोगात् , तयोरुदयो | यत्र स गुरुदैवतपूर्णोदयस्तसिन् ,सं. १६२९ वर्षे चैत्रसितदशमीतिथौ बृहस्पतिवारे पुष्य नक्षत्रे चंद्रे चरति सति इति भावार्थः । गुरुपक्षे पुनर्व्याख्यानं यथा-श्रीहीरविजयसुगुरुवारे-सुविहितागणीश्रीहीरविजयसूरीश्वरराज्ये प्रवर्त्तमाने,किंलक्षणे ?, 'नवहत्थे'त्यादि, | नव हस्ताः प्रमाणं यस्य एवंविधः कायः-शरीरं यस्य स चासौ राजा च नवहस्तकायराजः-श्रीपार्श्वनाथस्तेनांकित:-अवच्छिन्नोऽर्थात् या कालस्तेन समः-सदृशो महिमा यत्र स तथा तसिन् , अत्समासांतेन नवहस्तकायराजांकितसममहिमे, यद्वा नव हस्ताः प्रमाण OGROUGHOoOTOHOROHOTU
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy