________________
भीप्रवचन
परीक्षा ११ विश्रामे ॥३०॥
पाशविश्रामोपसंहारः
GHOROUGHOUGHOUGHOCISHONGKONG
यस्यैवंविधो राजते इत्येवंशीलो राजा-शोभनः एवंविधः कायः-शरीरं यस्य सः प्राकृतत्वात् विशेषणस्य परनिपाता, तथा च नवहस्तकायराजेतिसंपन्नं तेनांकितः चिह्नीकृतोऽर्थात् श्रीपार्श्वनाथस्तस्य महिम्नः समो महिमा यत्र स तथा तसिन् , श्रीपार्श्वनाथराजसदृशमहिम्नि श्रीहीरविजयसूरीश्वरराज्ये इत्यर्थः, अयं भावः-श्रीऋषभाद्यपेक्षया हीनकालसमुत्पन्नोऽपि श्रीपार्श्वनाथः सर्वजनेष्वादेयनामा यथाऽभूत् न तथा ऋषभादयः,एवं श्रीवजखाम्याद्यपेक्षया श्रीवीरजन्मनक्षत्रसंक्रान्तभस्मराशिमाहात्म्यात् कुनृपकुपाक्षिकबाहुल्येन तथाविधकालोत्पन्नोऽपि श्रीहीरविजयमरिय॑था माहात्म्यभाग् न तथा वज्रखाम्यादयः, न चैतत् वर्णनमात्र, किंतु | पारमार्थिकमिति प्रदर्शनाय विशेषणद्वारा हेतुमाह, किंलक्षणे श्रीहीरविजयसुगुरुवारे?-'चित्रसितपक्षे चित्रं-आश्चर्य यथा स्यात् तथा
पाक्षिकमुख्यानामवि निजकुपक्षपरित्यागपुरस्सरं सितः श्वेतः शुद्ध इतियावत् पक्षः अंगीकारो यत्र वारके स तथा तस्मिन् ,अयं भावःकुपाक्षिकमुख्यः सपरिकरः ऋषिमेघजीनामा लुंपकमतीयो नगरमुख्येऽहम्मदावादे सकलराजमुख्यमुद्गलाधिपतिपातशाहश्रीअकब्बरसाक्षिकं महामहःपुरस्सरं यथा प्रव्रज्यादिकं प्रतिपेदे न तथा प्राचीनाचार्यराज्येषु, यद्यपि कश्चित् कदाचित् प्रवज्यादिकं स्वीकुर्वाणो| |दृष्टः श्रुतश्च परं तन्मुख्यास्तु उक्तयुक्त्या श्रीहीरविजयसूरिराज्ये इति चित्रं, एवमपि कुत इति विशेषणद्वारा हेतुमाह, यतः किंलक्षणे श्रीपूज्यवारके ?-'गुरुदैवकपूर्णोदये गुरु-महत् तच्च तद्देवं च गुरुदैवकं, स्वार्थे का, तस्य पूर्णः-अन्यून उदयस्तीर्थकृन्नामकर्मोदयवत् माग्जन्मोपार्जितशुभप्रवृत्तिविपाकानुभवनं यत्र स तथा तसिन् गुरुदैवकपूर्णोदये तत्र, न केवलं गुरोरेव पुण्यप्रकृत्युदयः, किंतु तद्भक्तानामपि, तथा हि-गुरुपक्षे तावत् नहि गुरूणां तथाविधपुण्यप्रकृतिविपाकानुदये कुपाक्षिककुनृपव्याकुलेऽपि काले श्रीस्तंभतीर्थे प्रभावनामुखेनैव कोटिसंख्यो द्रव्यव्ययः संभवति, तद्भक्तपक्षे तु तथाविधेऽपि काले तद्भक्तानां विधात्रा ज्ञानदर्शनचारित्राणि
जान KOROGOROUGHOUS