Book Title: Pravachan Pariksha Part 02
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha

View full book text
Previous | Next

Page 288
________________ निद्राया प्रमादाप्रमादते श्रीप्रवचन शकापि नोक्तं, ततः पाशस्यैव पाशकल्पं, जिनकल्पिकस्य तु वृषभयतितुल्यतापरमुत्सर्गत एवेति माथार्थः ।। अथ जिनालया निद्रा परीक्षा प्रमादो न भवतीति दर्शनाय दृष्टान्तदा तिकरचनामाह१९ विश्रामे ॥२८॥ जह थेराण जिणाण य परिग्गहो नेव वत्थपत्ताई। तह निहावि पमाओ नाणाए दोऽवि चरणहा ॥३६॥ यथा स्थविराणां-स्थविरकल्पिकानां जिनानां-जिनकल्पिकानां वस्त्रपात्रादि-स्थविरकल्पिकानां जघन्यतोऽपि चतुर्दशोपकरणानि जिनकल्पिकानां तु उत्कर्षतोऽपि द्वादशोपकरणानि परिग्रहो नैव स्यात्-न भवत्येव, तथा-तेन प्रकारेण निद्रा अपि आज्ञयाजिनाज्ञया प्रमादो न भवति, तत्र हेतुमाह-यतो वे अपि-उपकरणनिद्रे अपि चरणार्थ-चारित्राराधनार्थ,ननु निद्रायाः प्रमादत्वं तु भण्यते एव, तत्कथं निद्रा प्रमादो न भवतीति चेत् सत्यं, स्वरूपेण प्रमादत्वेऽपि स्थानकविशेषमासाद्य तथा व्यपदेशासंभवात् , अन्यथा शब्दादयो विषयाः क्रोधादयश्च कषायाः प्रमादत्वेन भणिताः तथा च तद्वतां प्रमादित्वभणने सप्तमादिदशमपर्यन्तगुणस्थानकवर्त्तिनां साधूनामप्रमतताव्यपदेशो व्यर्थ एवाऽऽपद्येत. दशमगुणस्थानकं यावत् कषायोदयात् , शब्दादीनां च विषयाणां कामभोगरूपतया प्रवचने प्रतीतत्वात , प्रमत्तगुणस्थानकादारभ्य त्रयोदशगुणस्थानपर्यन्तं यथासंभवं कामित्वभोगित्वव्यपदेशापत्त्या | महदसामंजस्यमापद्येत, केवलिनामपि रसादीनां भोगानामुदयात् ,ननु तेषां रागद्वेषाभावात् सत्यपि रसादिभोगित्वं न भण्यते इति चेत् चिरं जीव, एवमप्रमत्तादिसाधूनामपि न भोगित्वं,न वा कामित्वं,कुतो निद्राप्रमादवत्त्वमपि?, अत एव आगमे 'जे आसवा ते परिहस्सवेत्यादि भणितं, तथा क्रोधादयोऽपि स्थानकविषयाश्रिता निर्जराहेतवोऽपि भणिताः, यदागमः-"अरिहंतेसु अ रागो रागो साहसु बंभचारीसु । एस पसत्थो रागो अन्ज सरागाण साहण ॥१॥"मित्यादि, एवं यथा विषयकषायाः सन्तोऽपि साधूनां न विव GROGROLOGRORONGHOTOHOR ॥२८६॥

Loading...

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356