________________
निद्राया प्रमादाप्रमादते
श्रीप्रवचन
शकापि नोक्तं, ततः पाशस्यैव पाशकल्पं, जिनकल्पिकस्य तु वृषभयतितुल्यतापरमुत्सर्गत एवेति माथार्थः ।। अथ जिनालया निद्रा परीक्षा
प्रमादो न भवतीति दर्शनाय दृष्टान्तदा तिकरचनामाह१९ विश्रामे ॥२८॥
जह थेराण जिणाण य परिग्गहो नेव वत्थपत्ताई। तह निहावि पमाओ नाणाए दोऽवि चरणहा ॥३६॥
यथा स्थविराणां-स्थविरकल्पिकानां जिनानां-जिनकल्पिकानां वस्त्रपात्रादि-स्थविरकल्पिकानां जघन्यतोऽपि चतुर्दशोपकरणानि जिनकल्पिकानां तु उत्कर्षतोऽपि द्वादशोपकरणानि परिग्रहो नैव स्यात्-न भवत्येव, तथा-तेन प्रकारेण निद्रा अपि आज्ञयाजिनाज्ञया प्रमादो न भवति, तत्र हेतुमाह-यतो वे अपि-उपकरणनिद्रे अपि चरणार्थ-चारित्राराधनार्थ,ननु निद्रायाः प्रमादत्वं तु भण्यते एव, तत्कथं निद्रा प्रमादो न भवतीति चेत् सत्यं, स्वरूपेण प्रमादत्वेऽपि स्थानकविशेषमासाद्य तथा व्यपदेशासंभवात् , अन्यथा शब्दादयो विषयाः क्रोधादयश्च कषायाः प्रमादत्वेन भणिताः तथा च तद्वतां प्रमादित्वभणने सप्तमादिदशमपर्यन्तगुणस्थानकवर्त्तिनां साधूनामप्रमतताव्यपदेशो व्यर्थ एवाऽऽपद्येत. दशमगुणस्थानकं यावत् कषायोदयात् , शब्दादीनां च विषयाणां कामभोगरूपतया प्रवचने प्रतीतत्वात , प्रमत्तगुणस्थानकादारभ्य त्रयोदशगुणस्थानपर्यन्तं यथासंभवं कामित्वभोगित्वव्यपदेशापत्त्या | महदसामंजस्यमापद्येत, केवलिनामपि रसादीनां भोगानामुदयात् ,ननु तेषां रागद्वेषाभावात् सत्यपि रसादिभोगित्वं न भण्यते इति चेत्
चिरं जीव, एवमप्रमत्तादिसाधूनामपि न भोगित्वं,न वा कामित्वं,कुतो निद्राप्रमादवत्त्वमपि?, अत एव आगमे 'जे आसवा ते परिहस्सवेत्यादि भणितं, तथा क्रोधादयोऽपि स्थानकविषयाश्रिता निर्जराहेतवोऽपि भणिताः, यदागमः-"अरिहंतेसु अ रागो रागो
साहसु बंभचारीसु । एस पसत्थो रागो अन्ज सरागाण साहण ॥१॥"मित्यादि, एवं यथा विषयकषायाः सन्तोऽपि साधूनां न विव
GROGROLOGRORONGHOTOHOR
॥२८६॥