________________
श्रीप्रवचन
परीक्षा ११ विश्रामे ॥२८५॥
| निद्रायाः प्रमादाप्रमादते
OMGHOUGHORIGHOSHOUGHOUGHOजल
all मार्गादचलंतस्ते सततं-अनवरतं जाग्रति-हिताहितप्राप्तिपरिहारं कुर्वते, द्रव्यनिद्रोपगता अपि कचित् द्वितीयपौरुन्यादौ सततं
जागरुका एवेति, एवमेव भावखापं जागरणं च विषयीकृत्य नियुक्तिकारो गाथां जगाद-'सुत्ता अमुणी उ सया मुणीऑ सुत्तावि | जागरा इंति । धम्मं पडुच्च एवं निद्दासुत्तेण भइयव्वं ॥१॥"ति,सुप्ता द्विधा-द्रव्यतो भावतश्च,तत्र निद्रया द्रव्यसुप्तान् गाथांते वक्ष्यति, भावसुप्तास्त्वमुनयो-गृहस्थाः मिथ्यात्वाज्ञानावृता हिंसाद्याश्रवद्वारेषु सदा प्रवृत्ताः, मुनयस्त्वपगतमिथ्यात्वनिद्रा अवाप्तसम्यक्त्वादिबोधा भावतो जागरुका एव, यद्यपि क्वचित् आचार्यानुज्ञाता द्वितीयपौरुष्यादौ दीर्घसंयमाचारशरीरस्थित्यर्थ निद्रावशोपगता | भवंति तथापि सदा जागरा एव, एवं धर्म प्रतीत्योक्ताः सुप्ता जाग्रदवस्थाश्च, द्रव्यनिद्रासुप्ते ननु जाड्यमेतत् धर्मः स्यात् न वा?, | यद्यसौ भावतो जागर्ति तदा निद्रासुप्तस्यापि धर्मः स्यादेव, यदिवा भावतो जाग्रतो निद्राप्रमादावष्टब्धान्तःकरणस्य न स्यादपि, | यस्तु द्रव्यभावसुप्तस्तस्य न स्यादेवेति भजनार्थः" इति श्रीआचारांगटीकायां, तथा “पढमे पोरसि सज्झायं, विइए झाणं झिआ| यइ । तइआए निद्दमोक्खं च, चउत्थी भुजोऽऽवि सज्झायं ।।१।"ति श्रीउत्तराध्ययने २६, एतवृत्त्येकदेशो यथा-स्पष्टमेव,
नवरं रात्रिमपि, न केवलं दिनमित्यपिशब्दार्थः, द्वितीयायां ध्यानं, तृतीयायां निद्रामोक्षं च अयं कुर्यादिति सर्वत्र, प्रकमाद् वृष|भापेक्षं चैतत् , सामस्त्येन तु प्रथमचरमप्रहरजागरणमेव, तथा चागमार्थः “सव्वेऽवि पढमजामे दोनि तु वसहाण आइमा जामा । तइओ होइ गुरूणं चउत्थओहोइ सव्वेसिं ॥१॥" इति सूत्रद्वयार्थः इति श्रीउत्तराध्ययनटीकायां, अत्र वृषभसाधोस्तृतीयप्रहरनिद्राऽनुज्ञा शेषसाधूनां तु प्रहरद्वयमिति, एतेन पाशेन यद् विकल्पितं मोक्षशब्देन निद्रामोचनं करोति, न पुनः वापं, तन्निरस्त, | यतो यदि स्वापं न करोति तर्हि किं करोतीति तृतीयप्रहरसंबंधि कृत्यं वक्तव्यं, यथा- दिवा तृतीयपहरे मिक्षाचर्या भणिता, तच्च
TOHORIGHOLORIORATOGHSACSION